________________
समाधिशतकम् ।
तथा जागरदृष्टेऽपि विपर्यासाविशेषतः ॥ १०१ ॥ नन्वेवं प्रसिद्धस्याप्यनाद्यनिधनस्यात्मनो मुक्त्यर्थं दुर्द्धरानुष्ठानक्लेशो व्यर्थो ज्ञानभावनामात्रेणैव मुक्तिप्रसिद्धेरित्याशङ्कयाहअदुःखभावितं ज्ञानं क्षीयते दुःखसन्निधौ । तस्माद्यथाबलं दुःखैरात्मानं भावयेन्मुनिः ॥ १०२ ॥ तिष्ठति नियमेन तिष्ठेदिति वदन्तं प्रत्याहप्रयत्नादात्मनो वायुरिच्छाद्वेषप्रवर्तितात् । वायोः शरीरयन्त्राणि वर्त्तन्ते स्वेषु कर्मसु ॥ १०३ ॥ तान्यात्मनि समारोप्य साक्षाण्यास्ते सुखं जडः । त्यक्त्वारोपं पुनर्विद्वान् प्राप्नोति परमं पदम् ॥ १०४ ॥ कमारोपं शरीरादीनामात्मन्यध्यवसायं कथमसौ तं त्यजतीत्याह
-
मुक्त्वा परत्र परबुद्धिमहंधियं च संसारदुःखजननीं जननाद्विमुक्तः । ज्योतिर्मयं सुखमुपैति परात्मनिष्ठस्तन्मार्गमेतदधिगम्य समाधितन्त्रम् ॥ १०५ ॥ प्रशस्तिः ।
२८३
-
येनात्मा बहिरन्तरुत्तमभिदा त्रेधा विवृत्यादि ते मोक्षोऽनन्तचतुष्टयामलवपुः सद्ध्यानतः कीर्तितः । जीयात्सोऽत्र जिनः समस्तविषयः श्रीपादपूज्योऽमलो भग्यानन्दकरः समाधिशतकः श्रीमत्प्रभेन्दुः प्रभुः ॥ १०६ ॥ इति श्रीमत्पूज्यपादस्वामिविरचितं समाधिशतकं समाप्तम् ।