________________
૨૮૨
प्रथम गुच्छक।
आसक्तं भवति क पुनरनासक्तं चित्तं भवतीत्याह
यत्रैवाहितधीः पुंसः श्रद्धा तस्मानिवर्त्तते ।
यस्मानिवर्त्तते श्रद्धा कुतश्चित्तस्य तल्लयः॥ ९६ ॥ । यत्र च चित्तं विलीयते तद्धयेयं भिन्नमभिन्नं च भवति । तत्र भिन्नात्मनि ध्येये फलमुपदर्शयन्नाह
भिन्नात्मानमुपास्यात्मा परो भवति तादृशः।
वर्तिीपं यथोपास्य भिन्ना भवति ताशी ॥ ९७ ॥ इदानीमभिन्नात्मन उपासने फलमाह - उपास्यात्मानमेवात्मा जायते परमोऽथ वा । मथित्वात्मानमात्मैव जायतेऽग्निर्यथा तरुः ॥ ९८ ॥ उक्तमर्थमुपसंहृत्य फलमुपदर्शयन्नाह - इतीदं भावयेन्नित्यमवाचागोचरं पदम् । स्वत एव तदानोति यतो नावर्तते पुनः ॥ ९९ ॥
नन्वात्मनि सिद्धे तस्य तत्पदप्राप्तिः स्यात् । न चासौ त. त्वचतुष्टयात्मकाच्छरीरातत्त्वान्तर्भूतः सिद्ध इति चार्वाकाः । सदैवात्मा मुक्तः सर्वदा स्वरूपोपलम्भसम्भवादिति सांख्यास्ता. न्प्रत्याह. अयत्नसाध्यं निर्वाणं चित्तत्त्वं भूतजं यदि ।
अन्यथा योगतस्तस्मान्न दुःखं योगिनां क्वचित् ॥ १० ॥ कथं सर्वदास्तित्वं सिद्ध्येदिति वदन्तं प्रत्याह
स्वप्ने दृष्टे विनष्टेऽपि न नाशोऽस्ति यथात्मनः।