SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ समाधिशतकम् । २८१ तेऽपि न प्राप्नुवन्त्येव परमं पदमात्मनः ॥ ८९ ॥ तत्पदप्राप्त्यर्थं जातिविशिष्टे शरीरे निर्ममत्वसिद्ध्यर्थं भोगे. भ्यो व्यावृत्त्यापि पुनर्मोहवशात् शरीर एवानुबन्धं कुर्वन्तीत्याह यत्यागाय निवर्तन्ते भोगेभ्यो यदवाप्तये । प्रीतिं तत्रैव कुर्वन्ति द्वेषमन्यत्र मोहिनः ॥९० ॥ तेषां देहे दर्शनव्यापारविपर्यासं दर्शयन्नाह अनन्तरक्षः संधत्ते दृष्टिं पङ्गुर्यथान्धके । संयोगादृष्टिमङ्गोऽपि संधत्तं तद्वदात्मनः ॥ ९१ ॥ अन्तरात्मा किं करोतीत्याह दृष्टिभेदो यथा दृष्टिं पङ्गुरन्धेन योजयेत् । तथा न योजयेहेहे दृष्टात्मा दृष्टिमात्मनः ॥ १२॥ बहिरन्तरात्मनोः काऽवस्था का भ्रान्तिः का वाऽभ्रान्तिरित्याह सुप्तोन्मत्ताद्यवस्थैव विभ्रमो नात्मदर्शिनाम् । विभ्रमः क्षीणदोषस्य सर्वावस्थात्मदर्शिनः ॥ ९३ ।। ननु सर्वावस्थात्मदर्शिनोऽप्यशेषशास्त्रपरिज्ञानान्निद्रारहितस्य मुक्तिर्भविष्यतीति वदन्तं प्रत्याह विदिताशेषशास्त्रोऽपि न जाग्रदपि मुच्यते । देहात्मदृष्टि तात्मा सुप्तोन्मत्तोऽपि मुच्यते ॥१४॥ सुप्ताद्यवस्थायामप्यात्मस्वरूपसंवित्त्यवैकल्यात् कुतस्तदा तदवैकल्यमित्याह यत्रैवाहितधीः पुंसः श्रद्धा तत्रैव जायते। यत्रैव जायते श्रद्धा चित्तं तत्रैव लीयते ॥ ९५॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy