________________
૨૮૦
प्रथम गुच्छक ।
कथं तानि त्यजेदिति तेषां त्यागक्रमं दर्शयन्नाह
अवतानि परित्यज्य व्रतेषु परिनिष्ठितः। त्यजेत्तान्यपि सम्प्राप्य परमं पदमात्मनः ॥ ८४ ॥ कुतोऽव्रतव्रतविकल्पपरित्यागे परमपदप्राप्तिरित्याहयदन्तर्जल्पसंपृक्तमुत्प्रेक्षाजालमात्मनः ।
मूलं दुःखस्य तन्नाशे शिष्टमिष्टं परं पदम् ॥ ८५ ॥ तस्य चोत्प्रेक्षाजालस्य नाशं कुर्वाणोऽनेन क्रमेण कुर्यादित्याह
अव्रती व्रतमादाय व्रती शानंपरायणः । परात्मज्ञानसम्पन्नः स्वयमेव परो भवेत् ॥ ८६॥
यथा च व्रतविकल्पो मुक्तेहेतुर्न भवति तथा लिङ्गविकल्पोऽपीत्याहलिङ्गं देहाश्रितं दृष्टं देह एवात्मनो भवः । न मुच्यन्ते भवात्तस्मादेते लिङ्गकृताग्रहाः ॥ ८७ ॥
येऽपि वर्णानां ब्राह्मणो गुरुरत एव परमपदयोग्य इति वदन्ति तेऽपि न मुक्तियोग्या इत्याह
जातिदेहाश्रिता दृष्टा देह एवात्मनो भवः। न मुच्यन्ते भवात्तस्मादेते जातिकृताग्रहाः ॥ ८ ॥
जातिब्राह्मणादिदेहाश्रितेत्यादि सुगमं । तर्हि ब्राह्मणादिजाति विशिष्टो निर्वाणादिदीक्षया दीक्षितो मुक्तिं प्राप्नोतीति वदन्तं प्रत्याह
जातिलिङ्गविकल्पेन येषां च समयाग्रहः ।