________________
समाधिशतकम् ।
२७९
यश्चात्मगोचरे जागर्ति स मुक्तिं प्राप्नोतीत्याह
आत्मानमन्तरे दृष्ट्रा रष्ट्रा देहादिकं बहिः । तयोरन्तरविज्ञानादभ्यासादच्युतो भवेत् ।। ७९ ॥
प्रारब्धयोगावस्थायां निष्पन्नयोगावस्थायां च कीदृशं जगत्प्रतिभासत इत्याह
पूर्व दृष्टात्मतत्त्वस्य विभात्युन्मत्तवजगत् । स्वभ्यस्तात्मधियः पश्चात्काष्ठपाषाणरूपवत् ॥८॥
ननु स्वभ्यस्तात्मधिय इति व्यर्थं शरीराद्भेदेनात्मनस्तत्स्वरूपविद्भयः श्रवणात्स्वयं चान्येषां तत्स्वरूपप्रतिपादनान्मुक्तिर्भविष्यतीत्याशङ्कयाह
शृण्वन्नप्यन्यतः कामं वदन्नपि कलेवरात् । नात्मानं भावयेद्भिनं यावत्तावन्न मोक्षभाक् ॥ ८१॥ मोक्षभाजनं तावन्न भवेदात्मा । तद्भावनायां च प्रवृत्तोऽसौ किं करोतीत्याह
तथैव भावयेदेहाद्वथावृत्त्यात्मानमात्मनि । यथा न पुनरात्मानं देहे स्वप्नेऽपि योजयेत् ॥ ८२॥
यथा च परमौदासीन्यावस्थायां स्वपरविकल्पस्त्याज्यस्तथा व्रतविकल्पोऽपि । यतः
अपुण्यमवतैः पुण्यं व्रतैर्मोक्षस्तयोय॑यः । अव्रतानीव मोक्षार्थी व्रतान्यपि ततस्त्यजेत् ॥ ८३ ॥