SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २७८ प्रथम गुच्छक। इत्याशङ्कां निराकुर्वन्नाह ग्रामोऽरण्यमिति द्वेधा निवासोऽनात्मदर्शिनाम् । दृष्टात्मनां निवासस्तु विविक्तात्मैव निश्चलः ॥ ७३ ॥ अनात्मदर्शिनो दृष्टात्मनश्च फलं दर्शयन्नाहदेहान्तरगतेबीजं देहेऽस्मिनात्मभावना। बीजं विदेहनिष्पत्तेरात्मन्येवात्मभावना ॥ ७४ ॥ तर्हि मुक्तिप्राप्तहेतुः कश्चिद्गुरुभविष्यतीति वदन्तं प्रत्याहनयत्यात्मानमात्मैव जन्म निर्वाणमेव वा। गुरुरात्मात्मनस्तस्मानान्योऽस्ति परमार्थतः ॥ ७९ ॥ नान्यो गुरुरस्ति परमार्थतो व्यवहारेषु तु यदि भवति तदा भवतु । देहे स्वबुद्धिमरणोपनिपाते किं करोतीत्याह दृढात्मबुद्धिर्दहादावुत्पश्यनाशमात्मनः । मित्रादिभिर्वियोगं च बिभेति मरणादृशम् ॥ ७६ ॥ यस्तु स्वात्मन्येवात्मबुद्धिः स मरणोपनिपाते किं करोतीत्याह आत्मन्येवात्मधीरन्यां शरीरगतिमात्मनः । मन्यते निर्भयं त्यक्त्वा वस्त्रं वस्त्रान्तरग्रहम् ॥७॥ एवं च स एव बुध्यते यो व्यवहारे अनादरपरो यस्तु त. त्रादरपरः स न बुध्यते इत्याह व्यवहारे सुषुप्तो यः स जागांत्मगोचरे । जागर्ति व्यवहारेऽस्मिन् सुषुप्तश्चात्मगोचरे ॥ ७८॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy