________________
समाधिशतकम् ।
२७७
स्मानं किमिति न प्रतिपद्यत इत्याह
शरीरकञ्चुकेनात्मा संवृतो शानविग्रहः । नात्मानं बुध्यते तस्माद् भ्रमत्यतिचिरं भवे ॥ ६८ ॥
यद्यात्मस्वरूपमात्मतत्त्वेन बहिरात्मानो न बुध्यन्ते तदा किमात्मत्वेन ते बुध्यन्ते इत्याह
प्रविशद्लतां व्यूहे देहेऽणूनां समाकृतौ। स्थितिभ्रान्त्या प्रपद्यन्ते तमात्मानमबुद्धयः ॥ ६९ ॥
ततो यथावदात्मस्वरूपप्रतिपत्तिमिच्छन्नात्मानं देहाद्भिन्नं भावयेदित्याह-- गौरः स्थूलः शो वाहमित्यङ्गेनाविशेषयन् ।
आत्मानं धारयेन्नित्यं केवलं शप्तिविग्रहम् ॥ ७० ॥ यस्त्वेवंविधमात्मानमेकाग्रमनसा भावयेत्तस्यैव मुक्तिनान्यस्येत्याहमुक्तिरेकान्तिकी तस्य चित्ते यस्याचला धृतिः । तस्य नैकान्तिकी मुक्तिर्यस्य नास्त्यचला धृतिः ॥ ७१ ॥
लोकसंसर्ग परित्यज्यात्मनः स्वरूपस्य स्वसंवेदनानुभवे सति स्यान्नान्यथेति दर्शयन्नाह
जनेभ्यो वाक ततः स्पन्दो मनसश्चित्तविभ्रमाः। भवन्ति तस्मात्संसर्ग जनर्योगी ततस्त्यजेत् ॥ ७२ ॥
यतः एव ततस्तस्माद्योगी त्यजेत् कं संसर्ग सम्बन्धं कैः सह जनैः । तर्हि तैः संसर्ग परित्यज्याटव्यां निवासः कर्त्तव्य .