________________
२७६
प्रथम गुच्छक।
कुतोऽसौ शरीरादिविषये निवृत्तभूषणमण्डनादिकौतुक इत्याहन जानन्ति शरीराणि सुखदुःखान्यबुद्धयः । निग्रहानुग्रह धियं तथाप्यत्रैव कुर्वते ॥ ६१ ॥
यावच्च शरीरादावात्मबुद्धया प्रवृत्तिस्तावत्संसारस्तदभावा. न्मुक्तिरिति दर्शयन्नाह
स्वबुद्ध्या यावद्गृह्णीयात् कायवाक्चेतसां त्रयम् । संसारस्तावदेतेषां भेदाभ्यासे तु निर्वृतिः ॥१२॥
शरीरादावात्मनो भेदाभ्यासे च शरीरदृढतादौ नात्मनो दृढतादिकं मन्यत इति दर्शयन् 'घने' इत्यादि श्लोकचतुष्टयमाह -
घने वस्त्रे यथात्मानं न घनं मन्यते तथा । घने स्वदेहेऽप्यात्मानं न घनं मन्यते बुधः ॥ ६३ ॥ जीणे वस्त्रे यथात्मानं न जीर्ण मन्यते तथा । जीर्णे स्वदेहेऽप्यात्मानं न जीर्ण मन्यते बुधः ॥६४॥ नष्टे वस्त्रे यथात्मानं न नष्टं मन्यते तथा। नष्टे स्वदेहेऽप्यात्मानं न नष्टं मन्यते बुधः ॥ ६५ ॥ रक्ते वस्त्रे यथात्मानं न रकं मन्यते तथा । रक्ते स्वदेहेऽप्यात्मानं न रकं मन्यते बुधः ।। ६६ ॥
एवं शरीरादिभिन्नमात्मानं भावयतोऽन्तरात्मनः शरीरादेः काष्ठादितुल्यताप्रतिभासे मुक्तियोग्यता भवतीति दर्शयन्नाह
यस्य सस्पन्दमाभाति निष्पन्देन समं जगत् । अप्रक्षमक्रियाभोगं स समं याति नेतरः ॥ ६७ ॥ तद्विलक्षणो बहिरात्मा सोऽप्येवं शरीरादिभ्यो भिन्नमा