________________
समाधिशतकम्।
२७५
एवमबुध्यमानो मूढात्मा येषु विषयेष्वासक्तचित्तो न तेषु मध्येकिञ्चित्तस्योपकारकमस्तीत्याह
न तदस्तीन्द्रियार्थेषु यत् क्षेमङ्करमात्मनः । तथापि रमते बालस्तत्रैवाशानभावनात् ॥ ५५ ॥ तथानादिमिथ्यासंस्कारे सत्येवंभूता बहिरात्मानो भवन्तीत्याहचिरं सुषुप्तास्तमासि मूढात्मानः कुयोनिषु ।
अनात्मीयात्मभूतेषु ममाहमिति जाग्रति ॥ ५६ ॥ ततोऽबहिरात्मस्वरूपं परित्यज्य स्वशरीरमित्थं पश्येदित्याहपश्येन्निरन्तरं देहमात्मनो नात्मचेतसा। अपरात्मधियान्येषामात्मतत्त्वे व्यवस्थितः ॥ ५७॥
नन्वेवमात्मतत्त्वं स्वयमनुभूय मूदात्मनां किमिति न प्रति. पाद्यते येन तेऽपि तजानन्तीति वदन्तं प्रत्याह
अशापितं न जानन्ति यथा मां शापितं तथा । मूढात्मानस्ततस्तेषां वृथा मे शापनश्रमः ॥ ५८ ॥ किञ्चयद्बोधयितुमिच्छामि समाहं यदहं पुनः । ग्राह्यं तदपि नान्यस्य तत्किमन्यस्य बोधये ॥ ५९ ॥
बोधितोऽपि भ्रान्तस्तत्त्वे बहिरात्मनो तत्रानुरागः संभवति मोहोदयात्तस्य बहिरर्थ एवानुरागादिति दर्शयन्नाह
बहिस्तुप्यति मूढात्मा पिहितज्योतिरन्तरे । तुष्यत्यन्तः प्रबुद्धात्मा पहिावृत्तकौतुकः ॥ ६० ॥