SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २७४ प्रथम गुच्छक। प्रतीयते कथं तत्त्यागो युक्त इत्याह जगदेहात्मदृष्टीनां विश्वासो रम्यमेव का। आत्मन्येवात्मदृष्टीनां क विश्वासक वा रतिः ॥ ४९ ॥ नन्वेवमाहारादावप्यन्तरात्मनः कथं प्रवृत्तिः स्यादित्याह आत्मज्ञानात्परं कार्य न बुद्धौ धारयेविरम् । । . कुर्यादर्थवशात्किञ्चिद्वाकायाभ्यामतत्परः ॥ ५॥ तदनासक्तःकुतःपुनरात्मज्ञानमेव बुद्धौ धारयेन्न शरीरादिकमित्याह यत्पश्यामीन्द्रियैस्तन्मे नास्ति यत्रियतेन्द्रियः। अन्तः पश्यामि सानन्दं तदस्तु ज्योतिरुत्तमम् ॥५१॥ ननु सानन्दं ज्योतिर्यद्यात्मनो रूपं स्यातदेन्द्रियनिरोधं कृत्वा तदनु भवतः कथं दुःखं स्यापिलाहसुखमारब्धयोगस्य बहिर्दुःखमयात्मनि । बहिरेवासुखं सौख्यमध्यात्म भावितात्मनः ॥ ५२ ॥ तद्भावनां चेत्थं कुर्यादित्याह- . तब्रूयात्तत्परान्पृच्छेत्तदिच्छेत्तत्परो भवेत् । येनाविद्यामयं रूपं त्यक्त्वा विद्यामयं व्रजेत् ॥ ५३॥ ननु वाकायव्यतिरिक्तस्यात्मनोऽसम्भवात्तद्व्यादित्याद्ययुक्तमिति वदन्तं प्रत्याह शरीरे वाचि चात्मानं संधत्ते वाक्शरीरयोः । : भ्रान्तोऽभ्रान्तः पुनस्तत्त्वं पृथगेषां विबुध्यते ॥ ५४॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy