________________
समाधिशतकम्।
२७३
तत्त्वज्ञानीतरयोरबन्धकत्वबन्धकत्वे दर्शयन्नाह - परत्राहंमतिः स्वस्माच्च्युतो बनात्यसंशयम् । स्वस्मिन्नहमतिश्च्युत्त्वा परस्मान्मुच्यते बुधः ॥ ४३ ॥
यत्राहमतिर्बहिरात्मनो जाता तलेनकथमध्यवसीयते चान्तरात्मनस्तत्तेन कथमित्याशङ्कयाहदृश्यमानमिदं मूढस्त्रिलिङ्गमवबुध्यते । इदमित्यवबुद्धस्तु निष्पन्नं शब्दवर्जितम् ॥ ४४ ॥
ननु अन्तरात्मैवमात्मानं प्रतिपद्यते तदा कथं पुमान् गौ. रोऽहमित्यादिरूपं तस्य कदाचिदभेदभ्रान्तिः स्यादिति प्रत्याह
जानन्नप्यात्मनस्तत्त्वं विविक्तं भावयन्नपि । पूर्वविभ्रमसंस्काराभ्रान्ति भूयोऽपि गच्छति ॥ ४५ ॥ भूयो भ्रान्ति गतोऽसौ कथं तां त्यजेदित्याहअचेतनमिदं दृश्यमश्यं चेतनं ततः। क रुग्यामि व तुष्यामि मध्यस्थोऽहं भवाम्यतः ॥ ४६ ॥ इदानीं मूढात्मनोऽन्तरात्मनश्च त्यागोपादानविषयं दर्शयन्नाहत्यागादाने बहिर्मूढः करोत्यध्यात्ममात्मवित् । नान्तर्बहिरुपादानं त्यागो निष्ठितात्मनः ॥ ४७॥ . अन्तस्त्यागोपादाने कुर्वाणोऽन्तरात्मा कथं कुर्यादित्याहयुञ्जीत मनसात्मानं वाकायाभ्यां वियोजयेत् । मनसा व्यवहारं तु त्यजेद्वाकाययोजितम् ॥ ४८ ॥ ननु पुत्रकलत्रादिना सह वाक्कायव्यवहारे सुखोत्पत्तिः