________________
२७२
प्रथमगुच्छक।
किं पुनस्तत्त्वशब्देनोच्यते इत्याह
अविक्षिप्तं मनस्तत्वं विक्षिप्तं भ्रान्तिरात्मनः । धारयेत्तदविक्षिप्तं विक्षिप्तं नाश्रयेत्ततः ॥ ३६ ॥ कुतः पुनर्मनसो विक्षेपो भवति कुतश्चाविक्षेप इत्याह
अविद्याभ्याससंस्कारैरवशं क्षिप्यते मनः । तदेव ज्ञानसंस्कारैः स्वतस्तत्त्वेऽवतिष्ठते ॥ ३७॥ चित्तस्य विक्षेपेऽविक्षेपे च फलं दर्शयन्नाह
अपमानादयस्तस्य विक्षेपो यस्य चेतसः। नापमानादयस्तस्य न क्षेपो यस्य चतसः ॥ ३८ ॥ अपमानादीनां चापगमे उपायमाहयदा मोहात्प्रजायते रागद्वेषौ तपस्विनः । तदेव भावयेत्स्वस्थमात्मानं शाम्यतः क्षणात् ॥ ३९ ॥ तत्र रागद्वेषयोर्विषयं विपक्षं च प्रदर्शयन्नाहयत्र काये मुनेः प्रेम ततः प्रच्याव्य देहिनम् । कुद्या तदुसमे काये योजयेत्प्रेम नश्यति । ४01... तस्मिन्नष्टे किं भवतीत्याह--
आत्मविभ्रमजं दुःखमात्मशानात्प्रशाम्यति । नायतास्तत्र निर्वान्ति कृत्वापि परमं तपः ॥४१॥ अन्तरात्मा च किं करोतीत्याहशुभं शरीरं दिव्यांश्च विषयानभिवाञ्छति। उत्पनात्ममतिदेहे तत्वज्ञानी ततश्च्युतिम् ॥ ४२॥