________________
समाधिशतकम् ।
कथं कस्यचित्तत्र प्रवृत्तिरित्याशङ्कां निराकुर्वन्नाह - मूढात्मा यत्र विश्वस्तस्ततो नान्यद्भयास्पदम् । यतो भीतस्ततो नान्यदभयस्थानमात्मनः ॥ २९ ॥ कस्यात्मनः कीदृशस्तत्प्रतिपत्त्युपाय इत्याह
सर्वेन्द्रियाणि संयम्य स्तिमितेनान्तरात्मना । यत्क्षणं पश्यतो भाति तत्तत्त्वं परमात्मना ॥ ३० ॥ कस्मिन्नाराधिते तत्स्वरूपप्राप्तिर्भविष्यतीत्याशङ्कयाहयः परात्मा स एवाहं योऽहं स परमस्ततः । अहमेव मयोपास्यो नान्यः कश्चिदिति स्थितिः ॥ ३१ ॥ एवं स्वरूप एवाराध्याराधकभावव्यवस्था । एतदेव दर्शयन्नाह - प्राच्याव्य विषयेभ्योऽहं मां मयैव मयि स्थितम् । बोधात्मानं प्रपन्नोऽस्मि परमानन्दनिर्वृतिम् ॥ ३२ ॥ एवमात्मानं शरीराद्भिन्नं यो न जानाति तं प्रत्याह
२७१
यो न वेत्ति परं देहादेवमात्मानमव्ययम् । लभते न स निर्वाणं तप्त्वापि परमं तपः ॥ ३३ ॥ ननु परमतपोऽनुष्ठायिनां महद्दुःखोत्पत्तितो मनः खेदसद्भावात्कथंनिर्वाणप्राप्तिरिति वदन्तं प्रत्याह---
आत्मदेहान्तरज्ञानजनिताह्लादनिर्वृतः । तपसा दुष्कृतं घोरं भुञ्जानोऽपि न खिद्यते ॥ ३४ ॥ खेदं गच्छतामात्मस्वरूपोपलम्भाभावं दर्शयन्नाह -
रागद्वेषादिकल्लोलैरलोलं यन्मनोजलम् । स पश्यत्यात्मनस्तत्त्वं तत्तत्त्वं नेतरो जनः ॥ ३५ ॥