________________
૨૭૦
प्रथमगुच्छक ।
अथेदानीमात्मनि स्व्यादिना लिङ्कादिसंख्याविभ्रमनिवृ. त्यर्थं तद्विविक्तासाधारणस्वरूपदर्शनार्थ चाह. येनात्मनानुभूयेऽहमात्मनैवात्मनात्मनि ।।
सोऽहं न तन्न सा नासौ नैको न द्वौ न वा बहुः ॥२३॥ येनात्मना त्वमनुभूयसे स कीदृश इत्याह -
यदभावे सुषुप्तोऽहं यद्भावे व्युत्थितः पुनः । अतीन्द्रियमनिर्देश्यं तत्स्वसंवेद्यमस्म्यहम् ॥ २४ ॥
तस्वरूपं स्वसंवेदयतो रागादिप्रक्षयान्न कचिच्छत्रुमित्रव्यवस्था भवतीति दर्शयन्नाह
क्षीयन्तेऽत्रैव रागाद्यास्तत्त्वतो मां प्रपश्यतः। बोधात्मानं ततः कश्चिन मे शत्रुन च प्रियः ॥२५॥
यदि त्वमन्यस्य कस्यचिन्न शत्रुर्मित्रं वा तथापि तवान्यः काश्चिद्भविष्यतीत्याशङ्कयाह
मामपश्यन्नयं लोको न मे शत्रुर्न च प्रियः। मां प्रपश्यन्नयं लोको न मे शत्रुर्न च प्रियः ॥२६॥ बहिरात्मत्यागे परमात्मप्राप्तौ चोपोयत्वं दर्शयन्नाहत्यक्त्वैव बहिरात्मानमन्तरात्मव्यवस्थितः ।
भावयेत्परमात्मानं सर्वसङ्कल्पवर्जितम् ॥ २७ ॥ तद्भावनायाः फलं दर्शयन्नाह
सोऽहमित्यात्तसंस्कारस्तस्मिन् भावनया पुनः । तत्रैव दृढसंस्काराल्लभते ह्यात्मनि स्थितिम् ॥ २८ ॥