SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ समाधिशतकम्। २६९ आत्मीयां बहिरात्मावस्थामनुस्मृत्य विषादं कुर्वनाहमत्तश्च्युत्वेन्द्रियद्वारैः पतितो विषयेवहम् । ताप्रपद्याहमिति मां पुरवेद न तत्त्वतः ॥ १६ ॥ . अथात्मनो ज्ञप्तौ उपायमुपदर्शयन्नाहएवं त्यक्त्वा बहिर्वाचं त्यजेदन्तरशेषतः । एष योगः समासेन प्रदीपः परमात्मनः ॥ १७ ॥ कुतः पुनर्बहिरन्तर्वाचस्त्यागः कर्त्तव्य इत्याहयन्मया दृश्यते रूपं तन्न जानाति सर्वथा। जानन्न दृश्यते रूपं ततः केन ब्रवीम्यहम् ॥ १८॥ एवं बहिर्विकल्पं परीत्यज्यान्तर्विकल्पं परित्याजयन्नाहयत्परैः प्रतिपाद्योऽहं यत्परान्प्रतिपादये । उन्मत्तचेष्टितं तन्मे यदहं निर्विकल्पकः ॥ १९ ॥ तदेव विकल्पातीते स्वरूपं निरूपयन्नाहयदग्राह्यं न गृह्णाति गृहीतं नापि मुञ्चति । जानाति सर्वथा सर्व तत्स्वसंवेद्यमस्म्यहम् ॥ २० ॥ पूर्व कीदृशं मम चेष्टितमित्याह उत्पन्नपुरुषभ्रान्तेः स्थाणौ यद्वद्विचेष्टितम् । तद्वन्मे चेष्टितं पूर्व देहादिप्वात्मविभ्रमात् ॥ २१ ॥ साम्प्रतं तत्परिज्ञाने सति कीदृशं मे चेष्टितमित्याह यथासौ चेष्टते स्थाणी निवृत्ते पुरुषाग्रहे । तथाचेष्टोऽस्मि देहादौ विनिवृत्तात्मविभ्रमः ॥२२॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy