________________
प्रथमगुच्छका
करोतीत्याह,
स्वदेहसदृशं दृष्ट्वा परदेहमचेतनम् । परात्माधिष्ठितं मूढः परत्वेनाध्यवस्यति ॥ १०॥ एवंविषाध्यवसायाकिं भवतीत्याह,स्वपराध्यवसायेन देहेम्वविदितात्मनाम् । वर्तते विभ्रमैः पुंसां पुत्रभार्यादिगोचरः ॥ ११ ॥ एवंविधविश्रमाच किं भवतीत्याहअविद्यासंबिर्तस्तस्मात्संस्कारो जायते दृढः ।
येन लोकोऽङ्गमेव स्वं पुनरप्यभिमन्यते ॥ १२ ॥ एवं मन्यमानश्चासौ किं करोतीत्याहदेहे स्त्रबुद्धिरात्सानं युनत्त्येतेन निश्चयात् । स्वात्मन्येवात्मधीस्तस्माद्वियोजयति देहिनम् ॥ १३ ॥
देहेष्वात्मानं योजयतश्च बहिरात्मनो दुर्विलसितोपदर्शनपूकमाचार्योऽनुशयं कुर्वन्नाहदेहेवात्मधिया जाताः पुत्रभार्यादिकल्पनाः। सम्पत्तिमात्मनस्तामिर्मन्यते हा हतं जगत् ॥ १४॥ इदानीमुक्तमर्थमुपसंहृत्यात्मन्यन्तरात्मनोऽनुप्रवेशं दर्शयन्नाह
मूलं संसारदुःखस्य देह एवात्मधीस्ततः । त्यक्त्वनां प्रविशेदन्तर्बहिरव्यावृतेन्द्रियः ॥१५॥ १३ देई. १४ अन्यत्वेन. १५ विपरीतत्वम्. १६ प्रतिवासितः ।