________________
समाधिशतकम् ।
२६७
तत्र कुतः कस्योपादानं कस्य वा त्यागः कर्त्तव्य इत्यत आह । तत्र बहिरन्तः परमात्मानं प्रत्येकं लक्षणमाहबहिरात्मा शरीरादौ जातात्मभ्रान्तिरान्तरः । चित्तदोषात्मविभ्रान्तिः परमात्मातिनिर्मलः ॥ ५ ॥ तद्वाचिका नाममालां दर्शयन्नाह,
निर्मलः केवलः सिद्धो विविक्तः प्रभुरर्क्षयः । परमेष्ठी परात्मेति परमात्मेश्वरो जिनः ॥ ६ ॥
इदानीं बहिरात्मनो देहस्यात्मत्वेनाध्यवसाये कारणमुपद
र्शयन्नाह, —
बहिरात्मेन्द्रियद्वारैरात्मज्ञानपराङ्मुखः । स्फुरितश्चात्मनो देहमात्मत्वेनाध्यवस्यति ॥ ७ ॥ नरदेहस्थमात्मानमविद्वान्मन्यते नरम् ।
तिर्यञ्चं तिर्यगङ्गस्थं सुराङ्गस्थं सुरं तथा ॥ ८ ॥ नारकं नारकाङ्गस्थं न स्वयं तत्वर्तस्तथा । अनन्तानन्तश्रीशक्तिः स्वसंवेद्योऽचलस्थितिः ॥ ९ ॥
स्वदेह एवमध्यवसायं कुर्वाणो बहिरात्मा परदेहे कंथभूतं
१ आदिशब्दाद्वाङ्गनसोर्ग्रहणं. २ विगता भ्रान्तिः १३ कर्ममलरहितः.
४ प्रक्षीणाशेषकर्ममलः ५ परमविशुद्धिसमन्वितः ६ प्रक्षीणाशेषकर्ममलः ७ स्वामी. ९ इन्द्रदिप तिष्ठतीति. १० संसारिजीवेभ्य उत्कृष्टात्मा.
८ अव्ययः.
११ इन्द्राय संभाविनान्तरङ्ग बाहिरङ्गेण परमैश्वर्येण सम्पन्नः १२ तत्त्वते। निश्चयेन स्वयमात्मा चतुर्गतिमयो न भवति.