________________
प्रथमगुच्छक।
अथोक्तप्रकारसिद्धस्वरूपस्य तत्प्राप्त्युपायस्य चोपदेष्टारं सकलात्मानमिष्टदेवताविशेषं स्तोतुमाह
जयन्ति यस्यावदतोऽपि भारतीविभूतयस्तीर्थकृतोऽप्यनीहितुः। शिवाय धात्रे सुगताय विष्णव
जिनाय तस्मै सकलात्मने नमः ॥२॥ ननु विकल्पेतररूपमात्मानं नत्वा भवान् किं करिष्यतीत्याह
श्रुतेन लिङ्गेन यथात्मशक्ति समाहितान्तःकरणेन सम्यक् । समीक्ष्य कैवल्यसुखस्पृहाणां
विविक्तमात्मानमथाभिधास्ये ॥३॥ येन विविक्तमात्मानमिति विशेष्योच्यत इत्याशक्याह
बहिरन्तः परश्चेति त्रिधात्मा सर्वदेहिषु ।
उपेयात्तत्र परमं मध्योपायाद्वहिस्त्यजेत् ॥ ४॥ त्मनो भेदेनाबुध्यत तस्मै । कथंभूताय "अक्षयानन्तबोधाय" अक्षयोऽविनश्वरोऽनन्तो देशकालापरिच्छिन्नसमस्तार्थपरिच्छेदको वा बोधो यस्य तस्मै । एवंविधबोधस्य चानन्तदर्शनसुखवीयविनाभावित्वसामर्थ्यादनन्तचतुष्टयरूपायेति गम्यते । ननु चेष्टदेवताविशेषस्य पञ्चपरमेष्ठिरूपत्वादत्र सिद्धात्मन एव कस्माद् ग्रन्थकृता नमस्कारः कृत इति चेत् ग्रन्थस्य कर्तुर्व्याख्यातुः श्रोतुस्तदर्थानुष्ठातुश्च सिद्धस्वरूपप्राप्त्यर्थित्वात् । यो हि यत्स्वरूपप्राप्त्यर्थी स तद्गुणसम्पन्नं पुरुषविशेषं नमस्कुर्वाणो दृष्टो यथा कश्चिद्धनुर्वेदपरिज्ञानार्थी धनुर्वेदविदः सिद्धस्वरूपप्राप्त्यर्थी च समाधिशतकशास्त्रस्य कर्ता व्याख्याता श्रोता तदर्थानुष्ठाता चात्मविशेषस्तस्मात्सिद्धात्मनं नमस्करोतीति सिद्धशन्देनैव चाईदादीनामपि ग्रहणम् । तेषामपि देशतः सिद्धस्वरूपोपतेत्वात् ।
१ 'निष्कलेतर-' इति पाठान्तरम् ।