SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ श्रीमत्पूज्यपादस्वामिविरचितं समाधिशतकम्। सटिप्पणीकम् । (१४) सिद्धं जिनेन्द्रमलमप्रतिमप्रबोधं निर्वाणमार्गममलं विबुधेन्द्रवन्धम् । संसारसागरसमुत्तरणप्रपोतं वक्ष्ये समाधिशतकं प्रणिपत्य वीरम् ॥ १ ॥ श्रीपूज्यपादस्वामी मुमुक्षूणां मोक्षोपायं मोक्षस्वरूपं चोपदर्शयितुकामो निर्विघ्नतः शास्त्रपरिसमाप्त्यादिकं फलमभिलषन्निष्टदेवताविशेषं नमस्कुर्वन्नाह येनात्माऽबुध्यतात्मैव परत्वेनैव चापरम् । अक्षयानन्तबोधाय तस्मै सिद्धात्मने नमः ॥१॥ १ उत्थानिकाकारस्येदं मङ्गलाचरणम्. २ अत्र च पूर्वार्द्धन मोक्षोपाय, उत्तरार्धेन च मोक्षस्वरूपमुपदर्शितम् । सिद्धात्मने सिद्धपरमेष्ठिने सिद्धः सकलकर्मविप्रमुक्तः सचासावात्मा च तस्मै नमः । येन किं कृतं अषुध्यत ज्ञातः कोऽसौ प्रात्मा कथं आत्मैवं । अयमर्थः-येन सिद्धात्मनात्मैवात्मत्वेनैवाबुध्यत म शरीरादिकं कर्मोपार्जितसुरनरनारकतिर्यगांदिजीवपर्यायादिकश्च । तथा "परत्वेनैव चापरं" अपरञ्च शरीरादिकं कर्मजनितमनुष्यादिजीवपर्यायादिकश्च परत्वेनैवा
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy