Book Title: Digambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Author(s): Pannalal Choudhary
Publisher: Pannalal Choudhary

View full book text
Previous | Next

Page 295
________________ २८६ प्रथम गुच्छक । व्यपेतपरिशङ्कनं वितथकारणादर्शनादतोऽपि भगव॑स्त्वमेव परमेष्टितायाः पदम् ॥ ११ ॥ न लुन्ध इति गम्यसे सकलसङ्गसंन्यासतो न चाऽपि तव मृढता विगतदोषवाग्यद्भवान् । अनेकविधरक्षणादसुभृतां न च द्वेषिता निरायुधतयाऽपि च व्यपगतं तथा ते भयम् ॥ १२ ॥ यदि त्वमपि भाषसे वितथमेवमाप्तोऽपि सन् परेषु जिन का कथा प्रकृतिलुब्धमुग्धादिषु । न चाऽप्यकृतकात्मिका वचनसंहतिदृश्यते पुनर्जननमध्यहो! न हि विरुध्यते युक्तिभिः ॥ १३ ॥ सजन्ममरणर्षिगोत्रचरणादिनामश्रुतेरनेकपदसंहतिप्रतिनियामसन्दर्शनात् । फलार्थिपुरुषप्रवृत्तिविनिवृत्तिहेत्वात्मनां श्रुतेश्च मनुसूत्रवत्पुरुषकर्तृकैव श्रुतिः ॥ १४ ॥ स्मृतिश्च परजन्मनः स्फुटमिहेश्यते कस्यचित्तथाप्तवचनान्तरात्प्रसृतलोकवादादपि । न चाऽप्यसत उद्भवो न च सतो निसूलात्क्षयः कथं हि परलोकिनामसुभृतामसत्तोहाते ॥ १५ ॥ न चाऽप्यसदुदीयते न च सदेव वा व्यज्यते सुराङ्गमदवत्तथा शिखिकलापवैचित्र्यवत् । क्वचिन्मृतकरन्धनार्थपिठरादिके नेस्यते . क्षतिजलादिसङ्गगुण इज्यते चेतना ॥ १६ ॥ तकरणं वपुर्विगतभूषणं चाऽपि ते तजनचित्तनेत्रपरमोत्सवत्वं गतम् ।

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324