Book Title: Digambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Author(s): Pannalal Choudhary
Publisher: Pannalal Choudhary
View full book text
________________
पात्रकेसरिस्तोत्रम् । हरो हसति चायतं कहकहाट्टहासोल्बणं कथं परमदेवतेति परिपूज्यते पण्डितैः ॥ २९ ॥ मुखेन किल दक्षिणन पृथुनाऽखिलप्राणिनां समत्ति शवपूतिमजरुधिरांत्रमांसानि च । गणैः स्वसदृशैभृशं रतिमुपैति रात्रिंदिवं पिबत्यएि च यः सुरां स कथमाप्तताभाजनम् ॥ ३० ॥ अनादिनिधनात्मकं सकलतत्त्वसंबोधनं समस्तजगदाधिपत्यमथ तस्य संतृप्तता। तथा विगतदोषता च किल विद्यते यन्मृषा सुयुक्तिविरहान्न चाऽस्ति परिशुद्धतत्त्वागमः ॥ ३१॥ कमण्डलमृगाजिनाक्षवलयादिभिर्ब्रह्मणः शुचित्वविरहादिदोषकलुषत्वमभ्यूह्यते । भयं विघृणता च विष्णुहरयोः सशस्त्रत्वतः स्वतो न रमणीयता च परिमूढता भूषणात् ॥३२॥ .. स्वयं सृजति चेत्प्रजाः किमिति दैत्यविध्वंसनं सुदुष्टजननिग्रहार्थमिति चेदसृष्टिवरम् । कृतात्मकरणीयकस्य जगतां कृतिनिष्फला स्वभाव इति चेन्मृषा स हि सुदुष्ट एवाऽऽप्यते॥३३॥ प्रसन्नकुपितात्मनां नियमतो भवेददुःखिता तथैव परिमोहिता भयमुपद्रुतिश्चामयैः । तृषाऽपि च बुभुक्षया च न च संसृतिश्छिद्यते जिनेन्द्र ! भवतोऽपरेषु कथमाप्तता युज्यते ॥ ३४ ॥ कथं स्वयमुपद्रुताः परसुखोदये कारणं स्वयं रिपुभयार्दिताश्च शरणं कथं बिभ्यताम् ।

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324