Book Title: Digambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Author(s): Pannalal Choudhary
Publisher: Pannalal Choudhary

View full book text
Previous | Next

Page 280
________________ समाधिशतकम् । कथं कस्यचित्तत्र प्रवृत्तिरित्याशङ्कां निराकुर्वन्नाह - मूढात्मा यत्र विश्वस्तस्ततो नान्यद्भयास्पदम् । यतो भीतस्ततो नान्यदभयस्थानमात्मनः ॥ २९ ॥ कस्यात्मनः कीदृशस्तत्प्रतिपत्त्युपाय इत्याह सर्वेन्द्रियाणि संयम्य स्तिमितेनान्तरात्मना । यत्क्षणं पश्यतो भाति तत्तत्त्वं परमात्मना ॥ ३० ॥ कस्मिन्नाराधिते तत्स्वरूपप्राप्तिर्भविष्यतीत्याशङ्कयाहयः परात्मा स एवाहं योऽहं स परमस्ततः । अहमेव मयोपास्यो नान्यः कश्चिदिति स्थितिः ॥ ३१ ॥ एवं स्वरूप एवाराध्याराधकभावव्यवस्था । एतदेव दर्शयन्नाह - प्राच्याव्य विषयेभ्योऽहं मां मयैव मयि स्थितम् । बोधात्मानं प्रपन्नोऽस्मि परमानन्दनिर्वृतिम् ॥ ३२ ॥ एवमात्मानं शरीराद्भिन्नं यो न जानाति तं प्रत्याह २७१ यो न वेत्ति परं देहादेवमात्मानमव्ययम् । लभते न स निर्वाणं तप्त्वापि परमं तपः ॥ ३३ ॥ ननु परमतपोऽनुष्ठायिनां महद्दुःखोत्पत्तितो मनः खेदसद्भावात्कथंनिर्वाणप्राप्तिरिति वदन्तं प्रत्याह--- आत्मदेहान्तरज्ञानजनिताह्लादनिर्वृतः । तपसा दुष्कृतं घोरं भुञ्जानोऽपि न खिद्यते ॥ ३४ ॥ खेदं गच्छतामात्मस्वरूपोपलम्भाभावं दर्शयन्नाह - रागद्वेषादिकल्लोलैरलोलं यन्मनोजलम् । स पश्यत्यात्मनस्तत्त्वं तत्तत्त्वं नेतरो जनः ॥ ३५ ॥

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324