Book Title: Digambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Author(s): Pannalal Choudhary
Publisher: Pannalal Choudhary

View full book text
Previous | Next

Page 291
________________ ૨૮૨ प्रथम गुच्छक। आसक्तं भवति क पुनरनासक्तं चित्तं भवतीत्याह यत्रैवाहितधीः पुंसः श्रद्धा तस्मानिवर्त्तते । यस्मानिवर्त्तते श्रद्धा कुतश्चित्तस्य तल्लयः॥ ९६ ॥ । यत्र च चित्तं विलीयते तद्धयेयं भिन्नमभिन्नं च भवति । तत्र भिन्नात्मनि ध्येये फलमुपदर्शयन्नाह भिन्नात्मानमुपास्यात्मा परो भवति तादृशः। वर्तिीपं यथोपास्य भिन्ना भवति ताशी ॥ ९७ ॥ इदानीमभिन्नात्मन उपासने फलमाह - उपास्यात्मानमेवात्मा जायते परमोऽथ वा । मथित्वात्मानमात्मैव जायतेऽग्निर्यथा तरुः ॥ ९८ ॥ उक्तमर्थमुपसंहृत्य फलमुपदर्शयन्नाह - इतीदं भावयेन्नित्यमवाचागोचरं पदम् । स्वत एव तदानोति यतो नावर्तते पुनः ॥ ९९ ॥ नन्वात्मनि सिद्धे तस्य तत्पदप्राप्तिः स्यात् । न चासौ त. त्वचतुष्टयात्मकाच्छरीरातत्त्वान्तर्भूतः सिद्ध इति चार्वाकाः । सदैवात्मा मुक्तः सर्वदा स्वरूपोपलम्भसम्भवादिति सांख्यास्ता. न्प्रत्याह. अयत्नसाध्यं निर्वाणं चित्तत्त्वं भूतजं यदि । अन्यथा योगतस्तस्मान्न दुःखं योगिनां क्वचित् ॥ १० ॥ कथं सर्वदास्तित्वं सिद्ध्येदिति वदन्तं प्रत्याह स्वप्ने दृष्टे विनष्टेऽपि न नाशोऽस्ति यथात्मनः।

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324