Book Title: Digambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Author(s): Pannalal Choudhary
Publisher: Pannalal Choudhary

View full book text
Previous | Next

Page 292
________________ समाधिशतकम् । तथा जागरदृष्टेऽपि विपर्यासाविशेषतः ॥ १०१ ॥ नन्वेवं प्रसिद्धस्याप्यनाद्यनिधनस्यात्मनो मुक्त्यर्थं दुर्द्धरानुष्ठानक्लेशो व्यर्थो ज्ञानभावनामात्रेणैव मुक्तिप्रसिद्धेरित्याशङ्कयाहअदुःखभावितं ज्ञानं क्षीयते दुःखसन्निधौ । तस्माद्यथाबलं दुःखैरात्मानं भावयेन्मुनिः ॥ १०२ ॥ तिष्ठति नियमेन तिष्ठेदिति वदन्तं प्रत्याहप्रयत्नादात्मनो वायुरिच्छाद्वेषप्रवर्तितात् । वायोः शरीरयन्त्राणि वर्त्तन्ते स्वेषु कर्मसु ॥ १०३ ॥ तान्यात्मनि समारोप्य साक्षाण्यास्ते सुखं जडः । त्यक्त्वारोपं पुनर्विद्वान् प्राप्नोति परमं पदम् ॥ १०४ ॥ कमारोपं शरीरादीनामात्मन्यध्यवसायं कथमसौ तं त्यजतीत्याह - मुक्त्वा परत्र परबुद्धिमहंधियं च संसारदुःखजननीं जननाद्विमुक्तः । ज्योतिर्मयं सुखमुपैति परात्मनिष्ठस्तन्मार्गमेतदधिगम्य समाधितन्त्रम् ॥ १०५ ॥ प्रशस्तिः । २८३ - येनात्मा बहिरन्तरुत्तमभिदा त्रेधा विवृत्यादि ते मोक्षोऽनन्तचतुष्टयामलवपुः सद्ध्यानतः कीर्तितः । जीयात्सोऽत्र जिनः समस्तविषयः श्रीपादपूज्योऽमलो भग्यानन्दकरः समाधिशतकः श्रीमत्प्रभेन्दुः प्रभुः ॥ १०६ ॥ इति श्रीमत्पूज्यपादस्वामिविरचितं समाधिशतकं समाप्तम् ।

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324