Book Title: Digambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Author(s): Pannalal Choudhary
Publisher: Pannalal Choudhary
View full book text
________________
२७८
प्रथम गुच्छक।
इत्याशङ्कां निराकुर्वन्नाह
ग्रामोऽरण्यमिति द्वेधा निवासोऽनात्मदर्शिनाम् । दृष्टात्मनां निवासस्तु विविक्तात्मैव निश्चलः ॥ ७३ ॥ अनात्मदर्शिनो दृष्टात्मनश्च फलं दर्शयन्नाहदेहान्तरगतेबीजं देहेऽस्मिनात्मभावना। बीजं विदेहनिष्पत्तेरात्मन्येवात्मभावना ॥ ७४ ॥ तर्हि मुक्तिप्राप्तहेतुः कश्चिद्गुरुभविष्यतीति वदन्तं प्रत्याहनयत्यात्मानमात्मैव जन्म निर्वाणमेव वा। गुरुरात्मात्मनस्तस्मानान्योऽस्ति परमार्थतः ॥ ७९ ॥
नान्यो गुरुरस्ति परमार्थतो व्यवहारेषु तु यदि भवति तदा भवतु । देहे स्वबुद्धिमरणोपनिपाते किं करोतीत्याह
दृढात्मबुद्धिर्दहादावुत्पश्यनाशमात्मनः । मित्रादिभिर्वियोगं च बिभेति मरणादृशम् ॥ ७६ ॥ यस्तु स्वात्मन्येवात्मबुद्धिः स मरणोपनिपाते किं करोतीत्याह
आत्मन्येवात्मधीरन्यां शरीरगतिमात्मनः । मन्यते निर्भयं त्यक्त्वा वस्त्रं वस्त्रान्तरग्रहम् ॥७॥
एवं च स एव बुध्यते यो व्यवहारे अनादरपरो यस्तु त. त्रादरपरः स न बुध्यते इत्याह
व्यवहारे सुषुप्तो यः स जागांत्मगोचरे । जागर्ति व्यवहारेऽस्मिन् सुषुप्तश्चात्मगोचरे ॥ ७८॥

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324