Book Title: Charitra Sara
Author(s): Chamundrai, Indralal Shastri, Udaylal Kasliwal
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 9
________________ "UNNNNNNN सम्यक्त्व-पञ्चाणुव्रतवर्णनम् । न वेति शंकानिरासो निःशंकितत्त्वम् । ऐहलौकिकपारलौकिकेंद्रियविषय उपभोगाकांक्षानिवृत्तिः, कुदृष्टयंतराकांक्षानिरासो वा निःकाक्षता । शरीराद्यशुचित्वभावमवगम्य शुचीति मिथ्यासंकल्पापनयो. ऽथवाऽहत्प्रवचने इदमयुक्तं घोरं कष्टं न चेदिदं सर्वमुपपन्नमित्यशुभभावनानिरासो विचिकित्साविरहः । बहुविधेषु दुर्नयवर्त्मसु तत्त्वव. दाभासमानेषु युक्त्यभावमध्यवस्य परीक्षाचक्षुषा विरहितमोहममूढदृष्टित्त्वम् । उत्तमक्षमादिभावनयाऽऽत्मन आत्मीयस्य च धर्मपरिवद्धिकरणमुपबृहणम् । कषायोदयादिषु धर्मपरिभ्रंशकारणेषूपस्थितेषु स्वपरयोधर्मप्रच्यवनपरिपालनं स्थितिकरणम् । जिनप्रणीते धर्मामृते नित्यानुरागताऽथवा सद्यःप्रसूता यथा गौर्वत्से स्निह्यति तथा चातुर्वर्ण्य संघऽकृत्रिमस्नेहकरणं वात्सल्यम् । सम्यग्दर्शनज्ञानचा. रित्रत्रयप्रभावादात्मनः प्रकाशनमथवा ज्ञानतपःपूजासु ज्ञानदिनकरकिरणैः परसमयखद्योताद्योतावरणकरणं च, महोपवासादिलक्षणेन देवेंद्रविष्टरप्रकंपनसमर्थेन सत्तपसा स्वसमयप्रकटनं च महापूजामहा. दानादिभिधर्मप्रकाशनं च प्रभावना । एवंविधाष्टांगविशिष्टं सम्यक्त्वं तद्विकलयोरणुव्रतयो मापि न स्यात् । सम्यग्दर्शनमणुव्रतयुक्तं स्वर्गाय, महाव्रतयुक्तं मोक्षाय च । सम्यक्त्वमंगहीनं राज्यमिव श्रेयसे भवेन्नैव । न्यूनाक्षरो हि मंत्रो नालं विषवेदनाच्छित्यै ॥ सम्यक्त्वस्य गुणाः । संवेगो निर्वेदो निंदा गर्दा तथोपशमभक्ती । अनुकंपा वात्सल्यं गुणास्तु सम्यक्त्वयुक्तस्य ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 110