Book Title: Bharatiya Tattvagyan
Author(s): Nagin J Shah
Publisher: Jagruti Dilip Sheth Dr

View full book text
Previous | Next

Page 137
________________ १२८ ભારતીય તત્વજ્ઞાન १३०. ननु एवं तर्हि ईश्वरेच्छैव भवतु की संहीं च, किं कर्मभिः ? मैवम्, कर्मभिर्विना जगद्वैचित्र्यानुपपत्तेः । कर्मनैरपेक्ष्यपक्षेऽपि त्रयो दोषा दर्शिता एव - ईश्वरस्य निर्दयत्वं, कर्मचोदनानर्थक्यम्, अनिर्मोक्षप्रसङ्गश्चेति । तस्मात् कर्मणामेव नियोजने स्वातन्त्र्य मीश्वरस्य, न तन्निरपेक्षम् । न्यायमं०, भा० १, पृ० १८७। १३१. वेदस्य पुरुषः कर्ता...त्रैलोक्यनिर्माणनिपुणः परमेश्वरः । न्यायमं०, भा० १, पृ० १७५.। . . १३२. आप्तोपदेशः शब्दः । न्यासू० १.१.८ । मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात् । न्यायसू० २.१.६८। १33. य एव आप्ता वेदार्थानां द्रष्टारः प्रवक्तारश्च ते... । न्यायभा० २.१.६८ । १३४. परार्थं प्रवृत्तोऽपि न सुखमयीमेव करोति, विचित्रकर्माशयसहायस्य कर्तृत्वादित्यर्थः । न चैवं सति करुणाविरोधः, दुःखोत्पादस्य वैराग्यजननद्वारेण परमपुरुषार्थहेतुत्वात् । कन्दली पृ० १३२। १.३५. स हि सर्वप्राणिनां कर्मानुरूपं फलं प्रयच्छन् कथमनीश्वरः स्यादिति भावः । नहि योग्यतानुरूप्येण भृत्यानां फलविशेषप्रदः प्रभुरप्रभुर्भवति । कन्दली पृ० १३३ । ११.सर्वोऽपि कर्ता कारकस्वरूपमवधारयति, तत इच्छतीदमहमनेन निवर्तयामीति, ततः प्रयतते, तदनु कार्य व्यापारयति, ततः कारणान्यधितिष्ठति, ततः करोति, अनवधारयन्नमिच्छन्नप्रयतमानः कायमव्यापारयत् न करोतीत्यन्वयव्यतिरेकाभ्यां 'बुद्धिवच्छरीरमपि कार्योत्पत्तावुपायभूतम् । कन्दली पृ० १३७।। १३७. प्रभावातिशयादशरीरवदबुद्धिमानेवायमीश्वरः करिष्यति । उपादानोपकरणादिस्वरूपानभिज्ञो न शक्नोतीति चेत् । कुत एतत् ? तथानुपलम्भादिति चेत् ? फलितं ममापि मनोरथ द्रुमेण । कन्दली पृ० १३७ । १३८. अत्र प्रतिसमाधिः । किं शरीरित्वमेव कर्तृत्वमुत परिदृष्टसामर्थ्यकारकप्रयोजकत्वम् ? न तावच्छरीरित्वमेव कर्तृत्वम्, सुषुप्तस्योदासीनस्य च कर्तृत्वप्रसङ्गात्, किन्तु परिदृष्टसामर्थ्यकारकप्रयोजकत्वम् तस्मिन् सति कार्योत्पत्तेः। तच्चाशरीरस्यापि निर्वहति यथा स्वशरीरप्रेरणायामात्मनः। अस्ति तत्राप्यस्य स्वकर्मोपार्जितं तदेव शरीरमिति चेत् सत्यमस्ति, परं प्रेरणोपायो न भवति, स्वात्मनि क्रियाविरोधात् प्रेर्यतयाऽस्तीति चेत् ईश्वरस्यापि प्रेयः परमाणुरस्ति । ननु स्वशरीरे प्रेरणाया इच्छाप्रयत्नाभ्यामुत्पत्तेरिच्छाप्रयत्नयोश्च सति शरीरे भावादसत्यभावाद् अस्ति तस्य स्वप्रेरणायामिच्छाप्रयत्नजननद्वारेणोपायत्वमिति चेन्न, तस्येच्छाप्रयत्नयोरुपजननं प्रत्येव कारकत्वात्, लब्धात्मकयोरिच्छाप्रयत्नयोः प्रेरणाकरणकाले तु तदनुपायभूतमेव शरीरं कर्मत्वादिति व्यभिचारः, अनपेक्षितशरीरव्यापारस्येच्छाप्रयत्नमात्रसचिवस्यैव चेतनस्य कदाचिद Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194