Book Title: Bharatiya Tattvagyan
Author(s): Nagin J Shah
Publisher: Jagruti Dilip Sheth Dr

View full book text
Previous | Next

Page 140
________________ ભારતીય દર્શનોમાં ઈશ્વર १५८. तथाऽकृष्टप्रभवैस्तरुतृणादिभिर्व्यभिचार्ययं हेतुः। द्विविधानि कार्याण्युपलभ्यन्ते, कानिचिद् बुद्धिमत्पूर्वकानि यथा घटादीनि, कानिचित्तु तद्विपरीतानि यथाऽकृष्टप्रभवतृणादीनि । तेषां पक्षीकरणादव्यभिचारे,...न कश्चिद् हेतुर्व्यभिचारी स्यात्, व्यभिचारविषयस्य सर्वत्रापि पक्षीकर्तुं शक्यत्वात् । षड्दर्शनसमुच्चय-तर्करहस्यदीपिका, सं. महेन्द्रकुमार जैन, भारतीय ज्ञानपीठ, १९६९, पृ० १७८-९ १५८. तथा कालात्ययापदिष्टश्चायं, अकृष्टप्रभवाङ्करादौ कञभावस्याध्यक्षेणाध्यवसायात् । अग्नेरनुष्णत्वे साध्ये द्रव्यत्ववत् । ननु तत्राप्यदृश्य ईश्वर एव कर्तेति चेत्, तन्न । यतस्तत्र तत्सद्भावोऽस्मादेवान्यतो वा प्रमाणात् सिध्येत् । प्रथमपक्षे चक्रकम् । अतो हि तत्सद्भावे सिद्धेऽस्यादृश्यत्वेनानुपलम्भसिद्धिः, तत्सिद्धौ च कालात्ययापदिष्टत्वाभावः, ततश्चास्मात् तत्सद्भावसिद्धिरिति । द्वितीयपक्षोऽप्ययुक्तः, तत्सद्भावावेदकस्य प्रमाणान्तरस्यैवाभावात् । तर्करहस्यदीपिका, पृ० १७९-१८० १.१०.व्यभिचारिणश्चामी बुद्धिमन्तमन्तरेणापि विद्युदादीनां प्रादुर्भावविभावनात्, स्वप्नाद्यवस्था यामबुद्धिमत्पूर्वस्यापि कार्यस्य दर्शनाच्चेति । तर्करहस्यदीपिका, पृ० १८४ १६१. तर्करहस्यदीपिका, पृ० १८४ १.१२. तर्करहस्यदीपिका, पृ० १८५ ११ 3. सन्निवेशविशिष्टत्वं यादृग्देवकुलादिषु । कर्तर्यनुपलब्धेऽपि यदृष्टौ बुद्धिमद्गतिः ।।६१|| . तादृगेव यदीक्ष्येत तन्वगादिषु धर्मिषु । युक्तं तत्साधनादस्माद् यथाऽभीष्टस्य साधनम् ॥६२।। अन्वयव्यतिरेकाभ्यां यत्कार्यं यस्य निश्चितम् । निश्चयस्तस्य तदृष्टाविति न्यायो व्यवस्थितः ॥६३।। सन्निवेशविशेषस्तु नैवामीषु तथाविधः । न तु तन्वादिभेदेषु शब्द एव तु केवलम् ६४॥ तादृशः प्रोच्यमानस्तु संदिग्धव्यतिरेकताम् । आसादयति वल्मीके कुम्भकारकृतादिषु ॥६५॥ तत्त्वसङ्ग्रह સરખાવો ધમકીર્તિની નીચેની કારિકા अन्यथा कुम्भकारेण मृद्विकारस्य कस्यचित् ।। घटादेः कारणात् सिद्ध्येत् वल्मीकस्यापि तत्कृतिः ॥ प्र० वा० १.१५ १.१४. शरीराभावे च ज्ञानाद्याश्रयत्वमप्यसंभाव्यं, तदुत्पत्तावस्य निमित्तकारणत्वात्, अन्यथा मुक्तात्मनोऽपि तदुत्पत्तिप्रसक्तेः । तर्करहस्यदीपिका, पृ० १८० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194