________________
१२८
ભારતીય તત્વજ્ઞાન १३०. ननु एवं तर्हि ईश्वरेच्छैव भवतु की संहीं च, किं कर्मभिः ? मैवम्, कर्मभिर्विना
जगद्वैचित्र्यानुपपत्तेः । कर्मनैरपेक्ष्यपक्षेऽपि त्रयो दोषा दर्शिता एव - ईश्वरस्य निर्दयत्वं, कर्मचोदनानर्थक्यम्, अनिर्मोक्षप्रसङ्गश्चेति । तस्मात् कर्मणामेव नियोजने स्वातन्त्र्य
मीश्वरस्य, न तन्निरपेक्षम् । न्यायमं०, भा० १, पृ० १८७। १३१. वेदस्य पुरुषः कर्ता...त्रैलोक्यनिर्माणनिपुणः परमेश्वरः । न्यायमं०, भा० १, पृ० १७५.। . . १३२. आप्तोपदेशः शब्दः । न्यासू० १.१.८ । मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात् ।
न्यायसू० २.१.६८। १33. य एव आप्ता वेदार्थानां द्रष्टारः प्रवक्तारश्च ते... । न्यायभा० २.१.६८ । १३४. परार्थं प्रवृत्तोऽपि न सुखमयीमेव करोति, विचित्रकर्माशयसहायस्य कर्तृत्वादित्यर्थः । न
चैवं सति करुणाविरोधः, दुःखोत्पादस्य वैराग्यजननद्वारेण परमपुरुषार्थहेतुत्वात् ।
कन्दली पृ० १३२। १.३५. स हि सर्वप्राणिनां कर्मानुरूपं फलं प्रयच्छन् कथमनीश्वरः स्यादिति भावः । नहि
योग्यतानुरूप्येण भृत्यानां फलविशेषप्रदः प्रभुरप्रभुर्भवति । कन्दली पृ० १३३ । ११.सर्वोऽपि कर्ता कारकस्वरूपमवधारयति, तत इच्छतीदमहमनेन निवर्तयामीति, ततः
प्रयतते, तदनु कार्य व्यापारयति, ततः कारणान्यधितिष्ठति, ततः करोति,
अनवधारयन्नमिच्छन्नप्रयतमानः कायमव्यापारयत् न करोतीत्यन्वयव्यतिरेकाभ्यां 'बुद्धिवच्छरीरमपि कार्योत्पत्तावुपायभूतम् । कन्दली पृ० १३७।। १३७. प्रभावातिशयादशरीरवदबुद्धिमानेवायमीश्वरः करिष्यति । उपादानोपकरणादिस्वरूपानभिज्ञो
न शक्नोतीति चेत् । कुत एतत् ? तथानुपलम्भादिति चेत् ? फलितं ममापि मनोरथ
द्रुमेण । कन्दली पृ० १३७ । १३८. अत्र प्रतिसमाधिः । किं शरीरित्वमेव कर्तृत्वमुत परिदृष्टसामर्थ्यकारकप्रयोजकत्वम् ? न
तावच्छरीरित्वमेव कर्तृत्वम्, सुषुप्तस्योदासीनस्य च कर्तृत्वप्रसङ्गात्, किन्तु परिदृष्टसामर्थ्यकारकप्रयोजकत्वम् तस्मिन् सति कार्योत्पत्तेः। तच्चाशरीरस्यापि निर्वहति यथा स्वशरीरप्रेरणायामात्मनः। अस्ति तत्राप्यस्य स्वकर्मोपार्जितं तदेव शरीरमिति चेत् सत्यमस्ति, परं प्रेरणोपायो न भवति, स्वात्मनि क्रियाविरोधात् प्रेर्यतयाऽस्तीति चेत् ईश्वरस्यापि प्रेयः परमाणुरस्ति । ननु स्वशरीरे प्रेरणाया इच्छाप्रयत्नाभ्यामुत्पत्तेरिच्छाप्रयत्नयोश्च सति शरीरे भावादसत्यभावाद् अस्ति तस्य स्वप्रेरणायामिच्छाप्रयत्नजननद्वारेणोपायत्वमिति चेन्न, तस्येच्छाप्रयत्नयोरुपजननं प्रत्येव कारकत्वात्, लब्धात्मकयोरिच्छाप्रयत्नयोः प्रेरणाकरणकाले तु तदनुपायभूतमेव शरीरं कर्मत्वादिति व्यभिचारः, अनपेक्षितशरीरव्यापारस्येच्छाप्रयत्नमात्रसचिवस्यैव चेतनस्य कदाचिद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org