SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ભારતીય દર્શનોમાં ઈશ્વર १२७ १२०. नैष दोषः - अनात्ममनस्संयोगजत्वादिच्छा स्वरूपमात्रेण नित्यापि कदाचित्सर्गेण कदाचित्संहारेण वा विषयेणानुरज्यते । सर्गसंहारयोरन्तराले तु जगतः स्थित्यवस्थायां अस्मात्कर्मण इदमस्य संपद्यतामितीच्छा भवति प्रजापतेः॥न्यायमं०, भा० १, पृ० १८५। १२१. प्रयत्नस्तस्य संकल्पविशेषात्मक एव । न्यायम०, भा० १, पृ० १८५। १२२. तदेवं नवभ्य आत्मगुणेभ्यः पञ्च ज्ञानसुखेच्छाप्रयत्नधर्माः सन्तीश्वरे । चत्वारस्तु दुःखद्वेषाधर्मसंस्कारा न सन्तीत्यात्मविशेष एवेश्वरो न द्रव्यान्तरम् । न्यायमं०, भा० १, पृ० १८५। १२3. उच्यते – ज्ञानचिकीर्षाप्रयत्नयोगित्वं कर्तृत्वमाचक्षते । तच्चेश्वरे विद्यत एवेत्युक्तमेतत् । स्वशरीरप्रेरणे च दृष्टमशरीरस्याप्यात्मनः कर्तृत्वम्, इच्छामात्रेण च तस्य कर्तृत्वात् अनेकव्यापारनिर्वर्तनोपात्तदुर्वहक्लेशकालुष्यविकल्पोऽपि प्रत्युक्तः । न्यायमं०, भा० १, पृ० १८५। १२४. यथा ह्यचेतनः कायः आत्मेच्छामनुवर्तते । तदिच्छामनुवय॑न्ते तथैव परमाणवः ॥ न्यायमं०, भा० १, पृ० १८५। । १२५. यस्तु प्रयोजनविकल्पः - किमर्थं सृजति जगन्ति भगवान् ? इति - सोऽपि न पेशलः । स्वभाव एवैष भगवतः यत् कदाचित् सृजति, कदाचिच्च संहरति विश्वमिति । कथं पुनर्नियतकाल एषोऽस्य स्वभाव इति चेत् आदित्यं पश्यतु देवानांप्रियः यो नियतकालमुदेत्यस्तमेति च । न्यायमं०, भा० १, पृ० १८६ । १२६. क्रीडार्थेऽपि जगत्सर्गे न हीयते कृतार्थता । प्रवर्तमाना दृश्यन्ते न हि क्रीडासु दुःखिता । न्यायमं०, भा० १, पृ० १८६ । १२७. अथवा अनुकम्पयैव सर्गसंहारावारभतामीश्वरः । न्यायमं०, भा० १, पृ० १८६ । १२८. शुभाशुभसंस्कारानुविद्धा एवात्मानः । ते च धर्माधर्मनिगडसंयतत्वादपवर्ग पुरद्वाप्रवेशमलभमानाः कथं नानुकम्प्याः ? अनुपभुक्तफलानां कर्मणां न प्रक्षयः । सर्गमन्तरेण च तत्फलोपभोगासंभव इति शुभफलोपभोगाय स्वर्गादिसर्ग, अशुभफलोपभोगाय नरकादिसृष्टिमारभते दयालुरेव भगवान् । उपमोगप्रबन्धेन परिश्रान्तानामन्तराऽन्तरा विश्रान्तये जन्तूनां भुवनोपसंहारमपि करोतीति सर्वमेतत्कृपानिबन्धनमेव । न्यायमं०, भा० १, पृ० १८६ । १२८. ननु च युगपदेव सकलजगत्प्रलयकरणमनुपपन्नम्, अविनाशिनां कर्मणां फलोपभोग प्रतिबन्धासंभवादिति चोदितम् । न युक्तमेतत्, ईश्वरेच्छाप्रतिबद्धानां कर्मणां स्तिमितशक्तीनामवस्थानात् । तदिच्छाप्रेरितानि कर्माणि फलमादधति, तदिच्छाप्रतिबद्धानि च तत्रोदासते । कस्मादेवमिति चेत्, अचेतनानां चेतनानधिष्ठितानां स्वकार्यकरणानुपलब्धेः । न्यायमं०, भा० १, पृ० १८६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001201
Book TitleBharatiya Tattvagyan
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherJagruti Dilip Sheth Dr
Publication Year1998
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy