________________
ભારતીય તત્ત્વજ્ઞાન
૧૨૬
१०७. परलोकवादिभिरदृश्यमानानां कर्मणामपि कारणत्वाभ्युपगमात्... अथ जगद्वैचित्र्यं कर्मव्यतिरेकेण न घटत इति कर्मणामदृश्यमानानामपि कारणत्वं कल्प्यते तत्र; यद्येवमचेतनेभ्यः कार्योत्पादानुपपत्तेः कर्ताऽपि चेतनस्तेषामधिष्ठाता कल्प्यताम् । न्यायमं० भा० १, पृ० १९८० ।
११०. न चेतरेतराश्रयम् आगमैकशरणत्वाभावादीश्वरसिद्धेः । न्यायमं० भा० १, पृ० १८३ । १११. यथा चन्दनधूममितरधूमविसदृशमवलोक्य चान्दन एव वह्निरनुमीयते तथा विलक्षणात् कार्यात् विलक्षण एव कर्ताऽनुमास्यते । न्यायमं० भा० १, पृ० १८३ ११.२. न हीदृशं परिदृश्यमानमनेकरूपमपरिमितमनन्तप्राणिगतविचित्रसुखदुःखसाधनं भुवनादिकार्यम् अनतिशयेन पुंसा कर्तुं शक्यमिति । न्यायमं० भा० १, पृ० १८३ ११३. तथेयतस्त्रैलोक्यस्य निरवधिप्राणिसुखदुःखसाधनस्य सृष्टिसंहारसंविधानं सप्रयोजनं बहुशाखं जानन्नेव स्रष्टा भवितुमर्हति महेश्वरः । तस्मात्सर्वज्ञः । न्यायमं० भा० १, पृ० १८४ । ११४. अपि च यथा नियतविषयवृत्तीनां चक्षुरादीन्द्रियाणामधिष्ठाता क्षेत्रज्ञः तदपेक्षया सर्वज्ञः एवं सकलक्षेत्रज्ञकर्मविनियोगेषु प्रभवनीश्वरः तदपेक्षया सर्वज्ञः । न्यायमं० भा० १, पृ० १८४ । ११५. पुंसामसर्ववित्त्वं हि रागादिमलनिबन्धनम् । न च रागादिभिः स्पृष्टो भगवानिति सर्ववित् । न्यायमं० भा० १, पृ० १८४ ।
११५. नित्यं तज्ज्ञानं कथमिति चेत् - तस्मिन् क्षणमप्यज्ञातरि सति तदिच्छाप्रेर्यमाणकर्माधीननानाप्रकारव्यवहारविरमप्रसङ्गात् । प्रलयवेलायां तर्हि कुतस्तन्नित्यत्वकल्पनेति
--
चेत् – मैवम् – आप्रलयात्सिद्धे नित्यत्वे तदा विनाशकारणाभावात् अस्य आत्मन व तज्ज्ञानस्य नित्यत्वं सेत्सयति । पुनश्च सर्गकाले तदुत्पत्तिकारणाभावादपि नित्यं ज्ञानम् । न्यायमं० भा० १, पृ० १८४ ।
"
११७. एवं च तदतीतानागतसूक्ष्मव्यवहितादिसमस्तवस्तुविषयं न भिन्नम्, क्रमयोगपद्यविकल्पानुपपत्तेः । क्रमाश्रयणे क्वचिदज्ञातृत्वं स्यादिति व्यवहारलोपः । यौगपद्येन सर्वज्ञातृत्वे कुतस्त्यो ज्ञानभेदः ? न्यायमं० भा० १, पृ० १८४ । ११८. प्रत्यक्षसाधर्म्याच्च तज्ज्ञानं प्रत्यक्षमुच्यते, न पुनरिन्द्रियार्थसन्निकर्षोत्पन्नत्वमस्यास्ति, अजनकानामेवार्थानां सवितृप्रकाशेनेव तेन ग्रहणात् । न्यायमं०, भा० १, पृ० १८४ । . ज्ञानवदन्येऽप्यात्मगुणा येऽस्य सन्ति, ते नित्या एव; मनस्संयोगानपेक्षजन्मत्वात् । दुःखद्वेषास्तस्य' तावन्न सन्त्येव । भावनाख्येन संस्कारेणापि न प्रयोजनम्; सर्वदा सर्वार्थदर्शित्वेन स्मृत्यभावात् । अत एव न तस्यानुमानिकं ज्ञानमिष्यते । धर्मस्तु भूतानुग्रहवतो वस्तुस्वाभाव्याद् भवन्न वार्यते, तस्य च फलं परार्थनिष्पत्तिरेव । सुखं त्वस्य नित्यमेव, नित्यानन्दत्वेनागमात् प्रतीतेः । असुखितस्य चैवंविधकार्यारम्भयोग्यताऽभावात् । न्यायमं० भा० १, पृ० १८५ ।
११८.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org