SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ભારતીય દર્શનોમાં ઈશ્વર : ૧૨૫ ५८. तत्स्वाभाव्यात् सततप्रवृत्तिरिति चेत् - अथ मन्यसे यदि प्रवृत्तिस्वभावकं तत्त्वं प्रवृत्तिनिवृत्ती न प्राप्नुतः, न हि प्रवृत्तिस्वभावके तत्त्वे निवृत्तियुज्यत इति क्रमेणोत्पत्तिर्न प्राप्नोति तत्त्वस्यैकरूपत्वात् । न्यायवा. ४.१.२१ । ५६. नैष दोषः बुद्धिमत्त्वेन विशेषणात् – बुद्धिमत्तत्त्वमिति प्रतिपादितम् । बुद्धिमत्तया च विशिष्यमाणं सापेक्षं च न सर्वदा प्रवर्त्तते, न सर्वमेकस्मिन् काले उत्पादयति यस्य कारणसान्निध्यं तद् भवति यदसन्निहितकारणं तन्न भवति, न च सर्वस्य युगपत्कारणसान्निध्यमस्ति, अतः सर्वस्य युगपदुत्पादो न प्रसक्तः, स खलु प्रवर्तमानो धर्माधर्मयोः परिपाककालमपेक्षते । न्यायवा. ४.१.२१।। १००.न च बुद्धिमत्तया विनेश्वरस्य जगदुत्पादो घटत इति । सा च बुद्धिः सर्वार्थाऽतीताना गतवर्तमानविषया प्रत्यक्षा, नानुमानिकी नागमिकी, न तत्रानुमानं नागम इति । ज्ञाननित्यत्वाच्च न संस्कार: नित्यं विज्ञानमीश्वरस्येति न तत्र संस्कारो विद्यत इति, संस्काराभावाद् बुद्धिनित्यत्वाच्च न स्मृतिः, स्मृत्यभावाच्च नानुमानम् । न दुःखमधर्मस्याभावात् । अत एव न वैराग्यमिति, दुःखाभावान्न विरज्यत इति । अत एव न द्वेषो दुःखभावादिति । इच्छा तु विद्यतेऽक्लिष्टाऽव्याहता सर्वार्थेषु यथा बुद्धिरिति । न्यायवा. ४.१.२१। १०१.अथ किमयं बद्धो मुक्त इति ? न बद्धो दुःखाभावादेव, अबद्धत्वान्न मुक्त इति -- बन्धवान् मुच्यत इति, न च भगवति बन्धनमस्तीति अतो न मुक्त इति । न्यायवा. ४.१.२१। १०२.आत्मान्तराणामसम्बन्धादधिष्ठातृत्वमनुपपन्नमितिचेत् – अथ मन्यसे अर्थान्तरसमवायिनो ये धर्माधर्माः ते न साक्षादीश्वरेण सम्बध्यन्ते न पारम्पर्येण न चासम्बद्धमनुष्ठातुं शक्यते, न चानधिष्ठितयोर्धर्माधर्मयोः प्रवृत्तिर्युक्ता । न्यायवा. ४.१.२१।। . १०3. तच्च न, अजसम्बन्धोपपत्तेः । न्यायवा. ४.१.२१। . १०४. येऽप्यजं संयोगं नेच्छन्ति तेषामप्यणुमनःसंयोगोपपत्तेरस्ति सम्बन्धः । न्यायवा. ४.१.२१ । १०५. स पुनरात्मेश्वरसम्बन्धः किं व्यापकोऽव्यापको वा इति अर्थाभावादव्याकरणीयः प्रश्नः।। आत्मेश्वरसम्बन्धोऽस्तीत्येतदेव शक्यते वक्तुम् । न्यायवा. ४.१.२१। १.०१.न्यायवा. ४.१.२१ । १.०७....तस्माद्विनाशित्वेनापि कार्यत्वानुमानात्...अथवा सन्निवेशविशिष्टत्वमेव हेतुमभिदध्महे...। न्यायमं. भा० १, पृ० १८० । १०८. अदृश्यस्य च कर्तृरनुपलब्धितो नास्तित्वनिश्चयानुपपत्तेः... नाकृष्टजातवनस्पतीनाम कर्तृत्वमिति न विपक्षता । न्यायमं. भा० १, पृ० १८० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001201
Book TitleBharatiya Tattvagyan
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherJagruti Dilip Sheth Dr
Publication Year1998
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy