________________
ભારતીય તત્ત્વજ્ઞાન, परमाणुप्रवृत्तिसामर्थ्यम्, न, करणस्य केवलस्य क्रियानिवृत्तावसामर्थ्यम्, न हि करणं केवलं क्रियां निवर्तयदुपलभ्यते । अथ परमाण्वपेक्षाभ्यां धर्माधर्माभ्यां क्रियते, तदपि न युक्तमदृष्टत्वात्, न हि कर्मकरणाभ्यां क्रियां जन्यमानां क्वचिदपि पश्याम इति । आत्मा कर्ता भविष्यतीति, उक्तमेतदज्ञत्वादिति। अकारणोत्पत्तिर्भविष्यतीति, न युक्तमदृष्टत्वादिति । न चान्या गतिरस्ति । तस्माद् बुद्धिमत्कारणाधिष्ठिताः परमाणवः कर्माणि च प्रवर्तन्त इति ।
न्यायवा. ४.१.२१ । ८५.न कारणमीश्वरः विकल्पानुपपत्तेः -- कर्ता चेदीश्वरः, किं सापेक्षः करोति उत निरपेक्ष इति । किं
चातः ? यदि सापेक्षः येन करोति तस्याकर्ता, एवमन्यत्रापि प्रसङ्गः, तदपि साधनं येन करोति तस्याकर्तेति । अथायं किञ्चिदनपेक्ष्य करोति तद्वदन्यत्रापि प्रसङ्गः । अथायं सर्वमनपेक्ष्य
करोति, एवमपि पुरुषकर्माफलं भवेत् अनिर्मोक्षश्च प्रसज्येत । न्यायवा. ४.१.२१। १. निरपेक्षकर्तृत्वस्यानभ्युपगमात् धर्माधर्मविफलत्वादिदोषो नास्ति न चाकर्मनिमित्ते सर्गे दोष इति । येन करोति तस्याकर्तेति चेत्, नानेकान्तात्, नायमेकान्तोऽस्ति यो येन करोति स तन्न करोतीति, यथाऽनेकशिल्पपर्यवदातः पुरुषः करणान्तरोपादानो वास्यादि करोति, वास्याधुपादानो दण्डादि करोति, तदुपादानो घटादि; न च पर्यायकर्तृत्वे सति अकर्तृत्वम्, तथेश्वरोऽपि धर्माधर्मोपादानःशरीरसुखदुःखादि, आत्ममनःसंयोगशुद्धाशुद्धाभिसन्धिसाधनश्च धर्माधर्मों, सुखदुःखस्मृत्यपेक्षः तत्साधनाद्यपेक्षश्च शुद्धमशुद्धं चाभिसन्धिमिति । यदा करोति तदा साधनस्थाकर्तेति चेत् - अथ मन्यसे यदाऽयं साध्यं किञ्चिद् दृष्टं निवर्तयति तदा येन साधयति तस्याकर्ता प्रसज्यत इति ? नैतदेवम् न ब्रूमः सर्वाननयमेकस्मिन् काले करोतीति, अपि तु पर्यायेण, पर्यायकर्तृत्वे चायमदोषः । यदादौ करोति तस्यासाधनोत्पत्तिरिति चेत् - अथ मन्यसे यदि शरीरादिकर्तृत्वं धर्माधर्माद्यपेक्षस्य, अथ यदादौ करोति कथं तत् ? आदेरनभ्युपगमाददेश्यमेतत् – अनादिः संसार इति, प्रतिपादितमेतत्, धर्माधर्मसाफल्यं चैवम् – यदि चानादिः संसारः सापेक्षश्च कर्ता, एवं
प्राण्यन्तरसमवायिनां धर्माधर्माणां साफल्यम् । न्यायवा. ४.१.२१.।। ८७.अथायमीश्वरः कुवार्णः किमर्थं करोति ? लोके हि ये कर्तारो भवन्ति ते किञ्चिदुद्दिश्य
प्रवर्तन्ते इदमाप्स्यामि इदं हास्यामि चेति, न पुनरीश्वरस्य हेयमस्ति दुःखाभावात्, नोपादेयं वशित्वात् । क्रीडार्थमित्येके - एके तावद् ब्रुवते क्रीडार्थमीश्वरः सृजतीति। नन्वेतदयुक्तम्, क्रीडा हि नाम रत्यर्थं भवति, विना क्रीडया रतिमविन्दताम्, न च रत्यर्थी भगवान् दुःखाभावादिति । दुःखिनश्च सुखोपगमार्थ क्रीडन्ति । विभूतिख्यापनार्थमित्यपरे - जगतो वैश्वरूप्यं ख्यापनीयमित्यपरे मन्यन्ते । एतदपि तादृगेव - न हि विभूतिख्यापनेन कश्चिदतिशयो लभ्यते न चास्याख्यापनेन किञ्चिद्धीयत इति । किमर्थ तर्हि करोति ? तत्स्वाभाव्यात् कुर्वन्ति तथेश्वरोऽपि तत्स्वाभाव्यात् प्रवर्तते इति प्रवृत्तिस्वभावकं तत्तत्त्वमिति । न्यायवा. ४.१.२१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org