Book Title: Bharatiya Tattvagyan
Author(s): Nagin J Shah
Publisher: Jagruti Dilip Sheth Dr
View full book text
________________
ભારતીય દર્શનોમાં ઈશ્વર
१२७ १२०. नैष दोषः - अनात्ममनस्संयोगजत्वादिच्छा स्वरूपमात्रेण नित्यापि कदाचित्सर्गेण
कदाचित्संहारेण वा विषयेणानुरज्यते । सर्गसंहारयोरन्तराले तु जगतः स्थित्यवस्थायां
अस्मात्कर्मण इदमस्य संपद्यतामितीच्छा भवति प्रजापतेः॥न्यायमं०, भा० १, पृ० १८५। १२१. प्रयत्नस्तस्य संकल्पविशेषात्मक एव । न्यायम०, भा० १, पृ० १८५। १२२. तदेवं नवभ्य आत्मगुणेभ्यः पञ्च ज्ञानसुखेच्छाप्रयत्नधर्माः सन्तीश्वरे । चत्वारस्तु
दुःखद्वेषाधर्मसंस्कारा न सन्तीत्यात्मविशेष एवेश्वरो न द्रव्यान्तरम् । न्यायमं०, भा० १,
पृ० १८५। १२3. उच्यते – ज्ञानचिकीर्षाप्रयत्नयोगित्वं कर्तृत्वमाचक्षते । तच्चेश्वरे विद्यत एवेत्युक्तमेतत् ।
स्वशरीरप्रेरणे च दृष्टमशरीरस्याप्यात्मनः कर्तृत्वम्, इच्छामात्रेण च तस्य कर्तृत्वात् अनेकव्यापारनिर्वर्तनोपात्तदुर्वहक्लेशकालुष्यविकल्पोऽपि प्रत्युक्तः । न्यायमं०, भा०
१, पृ० १८५। १२४. यथा ह्यचेतनः कायः आत्मेच्छामनुवर्तते । तदिच्छामनुवय॑न्ते तथैव परमाणवः ॥
न्यायमं०, भा० १, पृ० १८५। । १२५. यस्तु प्रयोजनविकल्पः - किमर्थं सृजति जगन्ति भगवान् ? इति - सोऽपि न पेशलः ।
स्वभाव एवैष भगवतः यत् कदाचित् सृजति, कदाचिच्च संहरति विश्वमिति । कथं पुनर्नियतकाल एषोऽस्य स्वभाव इति चेत् आदित्यं पश्यतु देवानांप्रियः यो
नियतकालमुदेत्यस्तमेति च । न्यायमं०, भा० १, पृ० १८६ । १२६. क्रीडार्थेऽपि जगत्सर्गे न हीयते कृतार्थता । प्रवर्तमाना दृश्यन्ते न हि क्रीडासु दुःखिता ।
न्यायमं०, भा० १, पृ० १८६ । १२७. अथवा अनुकम्पयैव सर्गसंहारावारभतामीश्वरः । न्यायमं०, भा० १, पृ० १८६ । १२८. शुभाशुभसंस्कारानुविद्धा एवात्मानः । ते च धर्माधर्मनिगडसंयतत्वादपवर्ग
पुरद्वाप्रवेशमलभमानाः कथं नानुकम्प्याः ? अनुपभुक्तफलानां कर्मणां न प्रक्षयः । सर्गमन्तरेण च तत्फलोपभोगासंभव इति शुभफलोपभोगाय स्वर्गादिसर्ग, अशुभफलोपभोगाय नरकादिसृष्टिमारभते दयालुरेव भगवान् । उपमोगप्रबन्धेन परिश्रान्तानामन्तराऽन्तरा विश्रान्तये जन्तूनां भुवनोपसंहारमपि करोतीति
सर्वमेतत्कृपानिबन्धनमेव । न्यायमं०, भा० १, पृ० १८६ । १२८. ननु च युगपदेव सकलजगत्प्रलयकरणमनुपपन्नम्, अविनाशिनां कर्मणां फलोपभोग
प्रतिबन्धासंभवादिति चोदितम् । न युक्तमेतत्, ईश्वरेच्छाप्रतिबद्धानां कर्मणां स्तिमितशक्तीनामवस्थानात् । तदिच्छाप्रेरितानि कर्माणि फलमादधति, तदिच्छाप्रतिबद्धानि च तत्रोदासते । कस्मादेवमिति चेत्, अचेतनानां चेतनानधिष्ठितानां स्वकार्यकरणानुपलब्धेः । न्यायमं०, भा० १, पृ० १८६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194