Book Title: Anusandhan 2006 09 SrNo 37
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
September-2006
॥ ५ ॥ श्रीवीतरागाय नमः ॥
सटीकं
हयाटाखाट-काव्यम्
हयाटाखाट-सिंहाटागोटाजाटास्सशक्तयः । खाट-पाट - सरोटाटा वारनाटा ह्यवन्तु नः ॥१॥
अस्य ध्वन्यर्थः
कश्चिदात्मानं प्रति स्वाशिषमुररीकृत्य वदति - ते वारनाटा: सूर्यादयोऽष्टसङ्ख्यावच्छिन्नग्रहाः नः अस्मान् अवन्तु - रक्षन्तु वा पालयन्तु ।
कथम्भूतास्ते ? हयाटाखाटसिंहाटागोटाजाटा: - हयेन सप्तास्यविलक्षणेनाऽटति लोकं परिक्राम्यति वाऽऽक्राम्यतीति हयाटः सूर्यः । तदेव कोशेन वाच्यम्
मार्त्तण्डः काश्यपि सूर्यो हयाटो लोकतापनः ।
इति शब्दार्णवेन ।
चन्द्रमाः कीदृश: ? आखाट: सूर्यस्य पृष्ठि (ष्ठ) तो गच्छतीति आखाटश्चन्द्रः ।
आखेन करणीभूतेन मृगेणाऽरति
आखस्तु मृगरेवत्योराखुर्मूषकवाचकः । इत्यपि शब्दार्णवे स्पष्टम् । हिमांशुश्चन्द्रमा दोषी मृगाटाखाट इत्यपि ।
इति हलायुधः ।
Jain Education International
17
भौमः कीदृश: ? -सिंहाट:- शृङ्गादिभिर्भूतलं हिनस्ति वा ताडयति वा उत्खनतीति सिंहः वृषभः । तेन सप्तर्षिमध्याधोदेशेनाऽटति गच्छतीति सिंहाटो
भौमः 1
शृङ्गी कर्दमकोऽत्यागी सिंहो वृषभ इत्यपि । इति धनञ्जयः ।
कुज: कुसूनुः सिंहाटो भौमो भूमिसुतश्च सः । इति सार्वः ।
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78