Book Title: Anusandhan 2006 09 SrNo 37
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 33
________________ 28 अनुसन्धान ३६ स्वालोकनपरं । तथा चतुर्थं 'रुख' शब्देन मन:- परिणतिः चित्तेच्छेति यावदुच्चैः पदं भवन्तीति चत्वारोऽपि प्रकारा उक्ताः तेषां वपुषि शरीरान्तरिति । हे सज्जनाः इति शेषः । विवेकं युक्तायुक्तविचाररूपं, तर्कयत जानीत । तदेव स्पष्टयति यथा 'पयोयुगस्य नीर - क्षीरैक्यस्य, पटंतरीति भिन्नकरणकारणो हंससदृशोऽपरः कोऽपि कश्चित् पक्षी नास्ति, येन हंसस्यैते पूर्वार्धप्रणीताश्चत्वारोऽपि पदार्थाः प्रवराः क्रमेण शुद्धपक्षता, भक्ष्यं मुक्तारूपं चक्षुर्निर्मलं गुणागुण [ विवेक] परं मनःपरिणतिरुच्चा, सुस्थानवासरुचिलक्षणेति रहस्यम् ॥१०॥ पूर्वं प्रतिपादिता विवेकिता नीचजनसङ्गत्यागादेव भवति, अन्यथा सन्तोपि गुणा गलन्तीत्युपदर्शनार्थमतो ब्रूते मूल दोहा , कंटकिकी संगति कीई परि गुण की प्रतिकूल । व्याख्या मधुर द्रव्य मादक महा, मिश्रित बदरीमूल ॥ ११ ॥ कण्टकिनां निजवाक्यकण्टकवेधोद्वेजितजगज्जनाः अर्थाद् महाकुटिलस्वरूपाः, तेषां सङ्गतिर्मेलः, तस्यां कृतायां पूर्वोपार्जित - गुणानां रीति: प्रतिकूला विपरीता कुगुणरूपा भवति - इत्यधोऽमुमेवार्थं दृढयति-यथा बदर्याः कण्टकवत्याः मूलेन मिश्रितं मधुरद्रव्यं गुडप्रभृति, महामादकं मदजननं मदिरेव भवति इति चिन्त्यम् ॥११॥ अथ यथा नीचेन सङ्गं न सङ्गन्तव्यं तथा न विरोद्धव्यमिति मतिचिन्तामाश्रित्य वदति मूल दोहा - दाखि म पेमु दुजीहसुं सुजन ! न करि संग्राम । जारइ जरत गहिओ जरन, सीत करइ कर स्यांम ॥ १२॥ व्याख्या हे सज्जन ! त्वं द्विजिह्वेन दुर्जनेत समं प्रेम मिलनं मा समुत्पादय, तथा संग्रामोऽपि, अर्थात् तप्तेन (शीतेन वा) तेन सार्धं समीपवर्त्तित्वं मा कुरु, द्विधाऽपि तद्धेतू आह दुष्टस्वभावो ज्वलन्नग्निर्गृहीतः स्पृष्टः सन् करं ज्वलयति, तथा शीतस्वभावोऽग्निः सङ्गतः करं श्यामं करोतीति द्विविधं (धः) तप्त - शीतरूपोऽपि दहनो नाङ्गीक्रियते इति भावार्थ: । अत्र हेतुवैपरीत्यदर्शनेन कदाचित् उत्तरार्धं पूर्वपक्षाश्रयणं कार्यं परं द्वितीयः पक्षः सङ्गतिरूपो न कार्य एव हेतुसमयेनाऽऽन्तरोक्तितात्पर्यत् ॥१२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78