Book Title: Anusandhan 2006 09 SrNo 37
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 34
________________ September-2006 अथ पिशुनाधिकारात् - अस्मिन्संसारे वको जनः लोकान् संतर्जयतीति मनसि मन्यमानाः स्वसुखहेतवे तं बहुतरं पूज्यमिव सरलाः मन्यन्ते - इत्येनमेवार्थं श्रावयति मूलदोहा - कलिजुगमिं जग कुटिलकुं, बहु मनि मांनहि बीह । चितऊ दुतीय चंद की लख जन बंदहि लीह ||१३|| व्याख्या - कलौ युगे अर्थात् दुष्टेऽस्मिन् तुर्ये युगे, जगच्छब्देन सर्वे लोकाः, कुटिलस्य वक्रस्वभावस्य मनुजस्य, भयं बहुतरं मनसि स्वचेतोन्तरे मन्यन्ते चिन्तयन्ति, अर्थात् स्वकार्यसिद्ध्यर्थं तमाश्रयन्ति । यथा दृष्टान्तं दर्शयतिहे ! सज्जनाश्चिन्तयत विचारयत, द्वितीयाचन्द्रस्य कुटिलवृत्त्या निर्णतां रेखामपि लक्षं जनाः वन्दन्ते, तदुदयदिशं सन्मुखमुद्दिश्य, न तथाऽनुक्तमपि पूर्णचन्द्रं सरलं कोऽपि प्रणमतीत्यर्थोऽवगम्यः ॥१३॥ सा तु पूर्वोक्तशिलेखा देवपारणकृते स्वतनौ पराभवमनुभूय पश्चात् पुनः स्वसाहसोत्पादितदेवर्षिप्रसत्तेरुदयं क्रमेण प्राप्नोति इति लोकोक्ति मनोगोचरीकृत्याठन्तरदोधके तमेवार्थं दृढयति मूल दोहा प्रथम सहइ परिभव प्रगट, थिति तसु उंचहि थान | घट घण घाइ घरिओ चढहि, नारीसीसि निदांन ॥ १४ ॥ व्याख्या यः कश्चिज्जनः प्रथमं कियत्कालं यावत्, परिभवं परकृतघातपातादिदुःखं सहते, तस्यैव कतिचिद्दिनान्तरं उच्चैः स्थाने स्थितिरवस्थानं भवति । अतस्तदेवार्थं हेतुना सङ्केतयति यथा घनैः कुम्भकारकृतघातैर्घटितो घटः, निदाने पश्चादेव नारीशिरसि चटति स्थितिमालम्ब्य तिष्ठति इत्यवधार्यम् ॥१४॥ निगदति 29 अथ कथं मृत्पिण्डोत्पन्नो घटः पदमुच्चमेतीतिशङ्कानिराकरणाय पुन मूल दोहा गुरुता होति नख्यत्रगुण, वर कुल बरु न विचारी । जन धनवंत जबाधि कुं पकरइ पाणि पसारि ॥ १५ ॥ हे सुजनप्रवर ! गुरुत्वमुच्वत्त्वं महत्त्ववत्त्वमिति यावत्, नक्षत्रगुणेनेति सद्भाग्ययोगजातजन्मना भवति, परं तत्र वरं प्रधानं कुलं तस्य बलं कारणं मा विचारय । व्याख्या Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78