SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ September-2006 ॥ ५ ॥ श्रीवीतरागाय नमः ॥ सटीकं हयाटाखाट-काव्यम् हयाटाखाट-सिंहाटागोटाजाटास्सशक्तयः । खाट-पाट - सरोटाटा वारनाटा ह्यवन्तु नः ॥१॥ अस्य ध्वन्यर्थः कश्चिदात्मानं प्रति स्वाशिषमुररीकृत्य वदति - ते वारनाटा: सूर्यादयोऽष्टसङ्ख्यावच्छिन्नग्रहाः नः अस्मान् अवन्तु - रक्षन्तु वा पालयन्तु । कथम्भूतास्ते ? हयाटाखाटसिंहाटागोटाजाटा: - हयेन सप्तास्यविलक्षणेनाऽटति लोकं परिक्राम्यति वाऽऽक्राम्यतीति हयाटः सूर्यः । तदेव कोशेन वाच्यम् मार्त्तण्डः काश्यपि सूर्यो हयाटो लोकतापनः । इति शब्दार्णवेन । चन्द्रमाः कीदृश: ? आखाट: सूर्यस्य पृष्ठि (ष्ठ) तो गच्छतीति आखाटश्चन्द्रः । आखेन करणीभूतेन मृगेणाऽरति आखस्तु मृगरेवत्योराखुर्मूषकवाचकः । इत्यपि शब्दार्णवे स्पष्टम् । हिमांशुश्चन्द्रमा दोषी मृगाटाखाट इत्यपि । इति हलायुधः । Jain Education International 17 भौमः कीदृश: ? -सिंहाट:- शृङ्गादिभिर्भूतलं हिनस्ति वा ताडयति वा उत्खनतीति सिंहः वृषभः । तेन सप्तर्षिमध्याधोदेशेनाऽटति गच्छतीति सिंहाटो भौमः 1 शृङ्गी कर्दमकोऽत्यागी सिंहो वृषभ इत्यपि । इति धनञ्जयः । कुज: कुसूनुः सिंहाटो भौमो भूमिसुतश्च सः । इति सार्वः । For Private & Personal Use Only www.jainelibrary.org
SR No.520537
Book TitleAnusandhan 2006 09 SrNo 37
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2006
Total Pages78
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy