Book Title: Anusandhan 2005 02 SrNo 31 Author(s): Shilchandrasuri Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad View full book textPage 8
________________ फेब्रुआरी-2005 काकेन भक्षितम् ? । (तथैवेयमपि परमात्मपूजा ( ऽपीति ) किं नाङ्गीकरोषि ? | १) न च तस्या न तच्छुद्धिहेतुता, यथावदात्मस्वरूपप्रत्यायकतयाऽऽर्द्रकुमारादिवत्तदुपलब्धेः ॥१॥ प्रसिद्धमप्यागमे कल्याणकादितीर्थभूदर्शनस्पर्शनसामर्थ्यतः सम्यक्त्वदाढ्र्यापादनम् । यदाह आचाराङ्ग- भावनाऽध्ययननिर्युक्तिर्दर्शनभावनायां ''निक्खमणनाणनिव्वाणे "त्यादि ॥२॥ वर्णितमपि तत्रभवद्भिस्तत्र तत्र स्थाने सम्यक्त्वशुद्धिहेतुत्वं पूजायाः "पूयाए कायवहो पडिकुट्ठो सो उ किं तु जिणपूया । सम्मत्तसुद्धिहेउत्ति भावणीया उ निरवज्जा ॥" इत्यादिवचोभिः ||३|| सम्यक्त्वशुद्धिहेतुत्वादेव द्रव्यस्तवस्य संसारप्रतनुकृत्त्वमुद्धृष्यते "संसारपयणुकरणे दव्वत्थए कूवदिट्टंतो" इत्यादी ||४|| यथावस्थितदेवस्वरूपज्ञापकत्वात् प्रतिमाया न्याय्यैव तत्पूजने सम्यक्त्व शुद्धिहेतुता ॥५॥ श्रावकाणां निवासास्पदनिरूपणे यज्जिनभवनालङ्कृतं स्थानमिष्यते तदपि सम्यक्त्वशुद्धिहेतुत्वाङ्गीकारेणैव ॥६॥ प्रश्नव्याकरणाङ्गे 'मुनीनामपि यच्चैत्यवैयावृत्त्यं करणीयत्वेनोपदिष्टं तदपि सम्यक्त्वनैर्मल्याधायकत्वेन ||७|| सम्यक्त्वलिङ्गत्वेन वर्णितमपि देववैयावृत्त्यं प्रतिमापूजनद्वारैव सिद्धिमुपयाति ॥८॥ सम्यक्त्वविनयभेदेषूपदर्शितं चैत्यभक्तिबहुमानाद्यपि चैत्यपूजनस्तवनकर्तृणामेवोपपद्यते ॥९॥ आर्द्रकुमार - शय्यम्भवसूर्यादीनां प्रतिमादर्शनत एव सम्यक्त्वावाप्तिरुपवर्णिता ॥१०॥ प्रतिमाकारमत्स्यदर्शनादनेकेषां मत्स्यानामपि सम्यक्त्वोत्पत्तिद्वीपसागरप्रज्ञप्त्यादौ श्रूयते ॥११॥ १. मूलप्रतावेव एवं पाठान्तरं दृश्यते । २. अनगाराणामपि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74