Book Title: Anusandhan 2005 02 SrNo 31
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
फेब्रुआरी-2005
कैवल्यलक्ष्मीरप्यवापि ॥ तदेवं मूर्तिपूजाया युक्तिबिन्दुर्निदर्शितः ।
नेमिसूरिप्रसादेन विजयोदयसूरिणा ॥१॥ यर्जितं मया पुण्यं पूजायुक्तिनिरूपणात् ।
भवताद् भव्यसन्दोहे तेन पूजाऽऽदरो महान् ।।२।।
इति मूर्तिपूजायुक्तिबिन्दुः समाप्तः ।।
आचार्यश्रीविजयोदयसूरिकृता
मूर्तिमन्तव्यमीमांसा ॥ अथ श्रीमूर्तिमन्तव्यमीमांसा ॥ ___ प्रणम्य श्रीमहावीरं नेमिसूरिं गुरुं तथा ।
मूर्तिमन्तव्यमीमांसा कथ्यते भव्यबोधिनी ॥
युक्त्यागमसंसिद्धायामप्यस्यां मूर्तिमन्तव्यमीमांसायामर्वाचीनानामितिहासोपनिषद्वेदिनामाकूतेन तावद् मूर्तिनिषेधविचारोऽनादावपि काले न केनचित् कुत्रचित् कदाचनाऽपि प्रादुष्कृतः । अधुना दरीदृश्यमानसत्ताकोऽपि स न प्रथमं भारते लब्धभूमिः । अपि तु तत्प्रादुर्भावपिता प्रथमपुरुषः क्राइष्टसम्वतः पूर्वं पञ्चदशशतैकसप्ततिवर्षे (१५७१) प्रथमो याहूदीनां पेगम्बरो मोझझ(हसरतमुसा अलेहिसलाम)संज्ञो बभूव । तस्य मूर्तिपूजानिषेधबीजं तु तत्कालीनेतिहासाऽवलोकनत इदभेव सम्भाव्यते ।
तथाहि-पूर्वं तावदयं हसरतमुसा याहुदिकुले मीसरदेशेऽजायत । केनापि कारणेन मातर--पितराभ्यां मञ्जूषायां संस्थाप्य सा मञ्जूषा नाइलनद्यां प्रक्षिप्ता । तां च तत्कालीन-मिसरनृपतिफीरौनपुत्री लब्धवती । तया च राजकुमार्या [स] पुत्रवत् पालयित्वा वर्धितः । तदा च यहुदिन ईजिप्तेऽवसन्, बलादेव तेभ्य ईजिपश्यना इष्टिकानिष्पादनकर्म कारितवन्तः । एकदा ईदृगेव किञ्चित्कारणमवलम्ब्य ईजिपश्यन-यहुदिनावयुद्ध्येताम् । तत्राऽऽगतेन हजरतेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74