Book Title: Anusandhan 2005 02 SrNo 31
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 10
________________ फेब्रुआरी-2005 5 द्विबहुनिमित्तनिबन्धना विकल्पाः सञ्जायन्ते । उभयविवक्षा तु स्पष्टैवेति । अधिकरणविचारणायामप्येवमात्मपरोभयसन्निधानाभिधानं च सूपपद्यते । यदि वा यथायोगं प्रतिमावन्दनपूजनोद्यतस्य सर्वेषामपि व्रतानामाराधनोपपद्यते । नन्वेतत्तु मयाऽपूर्वमेव श्रूयते यद् व्रतानामप्याराधनं भवति पूजयेति चेत्, सत्यं, भवत्येव । शृणु तावत् सावधानीभूय तदुपपत्तिम् । प्रथम तावज्जिनपूजा-धिकारित्वमविरतसम्यग्दृष्टि-देशविरतयोर्द्वयोरपि । तद्विधिश्च दशत्रिक-पञ्चाभिगमादिसत्यापनपूर्वक एव । तत्र दश त्रिकाणि नैषेधिक्यादीनि नैषेधिकीत्रिकं १ प्रदक्षिणात्रिकं २ प्रणामत्रिकं ३ पूजात्रिकं ४ अवस्थात्रिकं ५ दिशात्रिकं ६ प्रमार्जनात्रिकं ७ वर्णादित्रिकं ८. भुदात्रिकं ९ प्रणिधानत्रिकं १० चेति । अभिगमपञ्चकं च सचित्तवर्जना-ऽचित्ताऽवर्ज-नैकशाटकोत्तरासङ्गकरण-मनएकत्वीकरणा-ऽञ्जलिप्रग्रहभेदात् । तत्राद्यां नैषेधिकी जिनगृहद्वारं प्रविशन् करोति गृहारम्भाद्याश्रवस्थानवर्जनरूपाम् । प्रदक्षिणात्रिकं विदधता जिनगेहाशातनादिनिर्धारणादिरूपां सर्वतस्तत्सम्भालनां विधाय द्वितीयां तां विदधाति । भावपूजावसरे च तृतीयाम् । नैषेधिकीकरणतश्च त्रिगुप्तः पञ्चनिग्रहपरो भवति, शब्दादिविषयेषु न मनो विह्वलयति, जिनगृहादितत्तत्कार्यं परमात्मस्वरूपं च विहाय न किमपि चिन्तयति । विकथाचतुष्क-मर्माभ्याख्याना-ऽप्रियाऽनृतादिवचनानि वर्जयति । वस्त्रकायादिशुद्धिं विधाय कण्डूयन-निष्ठीवनशृङ्गारचेष्टादिकं निषेधति । एवञ्च गुप्त्याद्याराधयत एव भावनैषेधिकी, अन्यथा शब्दोच्चारमात्रफला द्रव्यनैषेधिक्येव । तत्र प्रथमं जिनगृहद्वारे मूलगर्भगृहद्वारे चैत्यवन्दनकरणावसरे चेति नैषेधिकीत्रिककरणेन यथायोगं आश्रवद्वारनिषेधः प्रतिज्ञातस्तथा च पञ्चानामपि व्रतानां प्राणातिपात-मृषावादा-ऽदत्तादान-मैथुनपरिग्रहविरमणरूपाणामाराधनं भवति । भगवदिशां विमुच्य शेषदिक्त्रयमात्रस्यापि वर्जनेन षष्ठमपि दिग्विरमणव्रतं सत्यापितम् । "वपुश्च वसनं चैव मनो भूमिस्तथैव च । पूजोपकरणं न्याय्यं द्रव्यं विधिक्रिया तथा ॥१॥ १. अत एव श्रावकाणामपि द्वैविध्यं दर्शनश्रावक-व्रतश्रावकभेदात् । तत्र व्रतश्रावकस्तु पञ्चमगुणस्थानवर्ती, दर्शनश्रावकस्तु “से णं दंसणसावए भवति अभिगयजीवाजीवे उवलद्धपुण्णपावे आसवसंवरनिज्जरकिरियाहिगरणबंधमोक्खकुसले जाव अयमाउसो ! निग्गंथे पावयणे अटे अयं परमटे सेसे अणटे ।।" Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74