Book Title: Anusandhan 2000 00 SrNo 17
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 197
________________ अनुसंधान - १७ • 188 ईश्वरस्तेन च श्वेतवर्णों लक्ष्यते । शान्तिकपौष्टिकादौ उरिति ब्रह्मा, स च पीत'वर्णं व्यजयति । स्तम्भादौ पीतरक्तयोश्च कविरूढ्या ऐक्यात् रक्तवर्णस्याऽपि ग्रहणं वश्याकर्षणयोः । द इति कृष्णः, तेन च कृष्णवर्णो 'लक्ष्यते विद्वेषोच्चाटना' - वसानेषु । इत्यादिरन्योऽपि श्रीमतोऽस्य बीजाक्षरस्य प्रणिधानविधिर्यथाम्नायमवसेयः । इत्यनेन ७ वट्टकला अरिहंता निउणा सिद्धा य लोढकल सूरी ( ? ) । 'उवज्झाया सुद्धकला दीहकला साहुणो ६ भणिआ ॥ १ ॥ इति गाथोक्तरहस्येन परमेष्ठिपञ्चकमेव महानन्दार्थिना ध्येयमिति । अथवा भूरित्यनेन पृथ्वीतत्त्वमुच्यते । भु इत्यनेन भुवनं - जलतत्त्वम्, व इति वह्नितत्त्वम्, स्वस्तत्सवि इत्यनेन वाखाकाशे । तत्र स इत्यनेन वायुतत्त्वम्, स्वरुर्ध्वलोकं मुखमस्तक रूपम् वि इत्यनेन वियत्तत्त्वम् तनोति - व्याप्नोति इति स्वस्तत् । न्यायश्चैषाम् तत्त्वपञ्चकमिदं विधियोगात् स्मर्यमाणमघजातिविघाति । यथा - कल्पवृक्ष इव भक्तिपराणां पूरयत्यभिमतानि न कानि ? ॥ १ ॥ अथ वरेण्यं धीमहि इति । हि हकारे रेफे च, धी इति ईकारे यं इति बिन्दौ च योजिते मायाबीजम् । तदप्यचिन्त्यशक्तियुक्तम्, "सर्वमन्त्र - सार्वभौमत्वात् । इदमेव च उद्गीथादितत्त्वम् । महिधियोयोन इति । नात्परस्य विसर्गस्य माद्योजनेन म इति भावात्तदन्तं सन्मन्त्रः वर्णान्तेति (?) इत्यादि वचनात् । तथा वरेण्यमिति वस्था ( ? ) वकारात्परे १४ एकारे ण्यमिति बिन्दौ च वाग्बीजं ऐं । अधीमहि इत्यत्राऽऽर्हतः पक्षेइः काम उक्तः, १५ अतस्तद्धीः । किमाह - सर्वेषां मन्त्राणां सांयोगिकत्वात् । ०वर्णं ध्वन क ( ? ) ति ने । २. गम्यते ने । ३. ०नावसादनेषु ता. । ४. यदि वा ने. । ५. उवज्झाय विसुद्ध ता. । ६. सुह्या ने । ७. भु इत्यनेन वायुआकाशतत्त्वे । तत्र स इत्यनेन वायुतत्त्वम्, वि इत्यनेन वियत्तत्त्व स्वरूर्ध्वलोकं मुखमस्तकरूपं तनोति - व्याप्नोति० ने। ८.०मस्तकतत्त्वम् ता । ९. इति हकारे रेफे० ने. । १०. वण्यं ने. । ११. सर्वमन्त्रेषु सार्वभौमाधिनत्वात् ने. । १२. च उद्गीथादिकम् ने. । १३. ० परेरगंत ने. । १४. एकारो ता. । १५. अतस्तद्वीजस्मरबीज श्रीबीजप्रमुखाक्षराणां संयोग श्रीपद्मावतीत्रिपुरादिदेवताराधना महामन्त्रा सि( ? ) दि निबन्धनं भवन्तीति प्( ? )कारेण बद्धद्धिः स्वप्रज्ञानुसारेण वाच्यम् । सयोगिका अमी अर्था इति चेत् का ? ) । किमाह ने. । For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274