________________
अनुसंधान - १७ • 188
ईश्वरस्तेन च श्वेतवर्णों लक्ष्यते । शान्तिकपौष्टिकादौ उरिति ब्रह्मा, स च पीत'वर्णं व्यजयति । स्तम्भादौ पीतरक्तयोश्च कविरूढ्या ऐक्यात् रक्तवर्णस्याऽपि ग्रहणं वश्याकर्षणयोः । द इति कृष्णः, तेन च कृष्णवर्णो 'लक्ष्यते विद्वेषोच्चाटना' - वसानेषु ।
इत्यादिरन्योऽपि श्रीमतोऽस्य बीजाक्षरस्य प्रणिधानविधिर्यथाम्नायमवसेयः । इत्यनेन
७
वट्टकला अरिहंता निउणा सिद्धा य लोढकल सूरी ( ? ) । 'उवज्झाया सुद्धकला दीहकला साहुणो ६ भणिआ ॥ १ ॥ इति गाथोक्तरहस्येन परमेष्ठिपञ्चकमेव महानन्दार्थिना ध्येयमिति । अथवा भूरित्यनेन पृथ्वीतत्त्वमुच्यते । भु इत्यनेन भुवनं - जलतत्त्वम्, व इति वह्नितत्त्वम्, स्वस्तत्सवि इत्यनेन वाखाकाशे । तत्र स इत्यनेन वायुतत्त्वम्, स्वरुर्ध्वलोकं मुखमस्तक रूपम् वि इत्यनेन वियत्तत्त्वम् तनोति - व्याप्नोति इति स्वस्तत् । न्यायश्चैषाम्
तत्त्वपञ्चकमिदं विधियोगात् स्मर्यमाणमघजातिविघाति ।
यथा
-
कल्पवृक्ष इव भक्तिपराणां पूरयत्यभिमतानि न कानि ? ॥ १ ॥ अथ वरेण्यं धीमहि इति । हि हकारे रेफे च, धी इति ईकारे यं इति बिन्दौ च योजिते मायाबीजम् । तदप्यचिन्त्यशक्तियुक्तम्, "सर्वमन्त्र - सार्वभौमत्वात् । इदमेव च उद्गीथादितत्त्वम् ।
महिधियोयोन इति । नात्परस्य विसर्गस्य माद्योजनेन म इति भावात्तदन्तं सन्मन्त्रः वर्णान्तेति (?) इत्यादि वचनात् । तथा वरेण्यमिति वस्था ( ? ) वकारात्परे १४ एकारे ण्यमिति बिन्दौ च वाग्बीजं ऐं । अधीमहि इत्यत्राऽऽर्हतः पक्षेइः काम उक्तः, १५ अतस्तद्धीः । किमाह - सर्वेषां मन्त्राणां सांयोगिकत्वात् ।
०वर्णं ध्वन क ( ? ) ति ने । २. गम्यते ने । ३. ०नावसादनेषु ता. । ४. यदि वा ने. । ५. उवज्झाय विसुद्ध ता. । ६. सुह्या ने । ७. भु इत्यनेन वायुआकाशतत्त्वे । तत्र स इत्यनेन वायुतत्त्वम्, वि इत्यनेन वियत्तत्त्व स्वरूर्ध्वलोकं मुखमस्तकरूपं तनोति - व्याप्नोति० ने। ८.०मस्तकतत्त्वम् ता । ९. इति हकारे रेफे० ने. । १०. वण्यं ने. । ११. सर्वमन्त्रेषु सार्वभौमाधिनत्वात् ने. । १२. च उद्गीथादिकम् ने. । १३. ० परेरगंत ने. । १४. एकारो ता. । १५. अतस्तद्वीजस्मरबीज श्रीबीजप्रमुखाक्षराणां संयोग श्रीपद्मावतीत्रिपुरादिदेवताराधना महामन्त्रा सि( ? ) दि निबन्धनं भवन्तीति प्( ? )कारेण बद्धद्धिः स्वप्रज्ञानुसारेण वाच्यम् । सयोगिका अमी अर्था इति चेत् का ? ) । किमाह ने. ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org