________________
अनुसंधान-१७. 187
अष्टवर्गान्तगं बीजं कवर्गस्य च पूर्वकम् । वह्निनोपरि संयुक्तं गगनेन विभूषितम् ॥ १ ॥ एतद्देवि ! परं 'तत्त्वं योऽभिजानाति तत्त्वतः ।
संसारबन्धनं छित्त्वा स गच्छेत् परमां गतिम् ॥ २ ॥ इति वचनप्रामाण्यात् । __स्य-अन्तय । कमित्याह- ३ धियः- धीश्चित्तं-तस्य । इ:-कामस्तं मनः कामे हि ध्वस्ते ध्वस्तावेव वाक्कायकामौ । अहिधियः- क्रूरताद्यास्ताद्यपि विनाशय । चं विनाऽपि ५ समुच्चयोऽत्र गम्यः ।
अहरहर्नयमानो गामश्च(मश्वं) पुरुषं पशुम् ।
वैवस्वतो न तृप्यति सुराया इव दुर्मदी ॥ ३ ॥ इत्यादाविव । तथा योनि सच्चित्तादिकां च चतुरशीतिलक्षसङ्ख्यावच्छिन्नां करोतीति ण्यन्तात् विपि णि लुकि च "योन् - संसारस्तस्माद् योन:- “संसारात् प्रचोदय, अस्मानिति शेषः । 'कामादिध्वसनपूर्वमस्मान् मुक्ति प्रापय इत्यभिप्रायः। "न तु योनः प्रचोदयेत्यनेनैव कामादिध्वंसनमर्यादापन्नम्, मुक्ततायास्तन्नान्तरीयकत्वादिति चेत् । सत्यम्, मुक्त्यर्थिना पूर्व कामादि जयो विधेयः, इत्युपायोपेयभावज्ञापनार्थमित्यदोषः । तथा अत् इत सौगतपक्षवत् ।
१'इति सर्वदर्शनाभिप्रायेण मन्त्रस्य व्याख्या ॥ ८ ॥
अथाऽसौ २ गायत्रीमन्त्रः सर्वबीजाक्षरनिधिः इति द्विजप्रवादमाश्रित्य कतिचिन्मन्त्राक्षरबीजानि प्रदर्श्यन्ते । तद्यथा- मुइति बीजाक्षरं अक्षपादपक्षप्रदर्शितप्रभावदिग्मात्रम् । तत्र च १३भर्गोंद इति ध्यानकार्यापेक्षं वर्णसूचनम् । तथाहि- १४भर्ग
१. तन्त्रं ने.। २. इत्यादि ने.। ३. धी धीश्च(चित्तं तयः ने.। ४. ध्वंसिते ने.। ५.समुच्चयस्य गम( म्य)मानत्वात् ने. । ६. ०दिकं चतुरशीतिलक्षसङ्ख्याविच्छिन्नापाकरोती० ने. । ७. योनः ता.। ८. संसारोदधेः ने.। ९. कामक्रोधादि० ने.। १०.योः नः प्रचोदयेत्यनेनैव कामादिध्वंसम(न)मर्थापन्नं मुक्तताया सूत्रन्तरायकीत्वात्रार्थस्य धीमहि धिय इत्यनेनैवेति चेन्न. ने.। ११. इति सर्वदर्शने मन्त्र-व्याख्या ने. । १२. ० गायत्री सर्वज्ञबीजा० ने.। १३. भर्गोदे ने. । १४. भर्ग इतीश्वर० ने. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org