________________
अनुसंधान - १७• 186
यत्र यत्तदोर्नित्यानि (भि) सम्बन्धाद्विद्यते
ओमित्यक्षरं छन्दसामादिभूतत्वात्तस्य किं वि० ? भूर्भुवः स्वस्तत् भुवनत्रयव्यापि । तर्हि किञ्चिदभिधेयसत्तासमाविष्टं वस्तु गुरुसम्प्रदाययुक्त्याऽन्विष्यमाणमत्र' कारे शाब्दपर्यायेणाऽवाप्यते । सर्ववादिभिरविगानेनाऽस्य सकलभुवनत्रयकमलाधिगमे बीजतयोपवर्णितत्वादिति परिभावनीयमेतत् । अत एवाऽस्याऽसाधारणं विशेषण' माह आण्यमिति । अण्य उच्चार्यते इति आण्यं-प्रणिधेयम् । कस्य ? इत्याह वस्य । ' उ ब्रह्मा, उः शम्भुः, अश्च विष्णुः समाहारवशात्-वम्, तेनाऽपि ध्येयम् । वस्त कर्त्तरि षष्ठी कृत्यस्य वेति ।
यद्वा वेदात् किं० ? सवितुरुत्पादयितुः व्याप्यमाह इत्यादि प्राग्वत् । शेषं प्राग्वत् । नवरं व शब्दो वाक्यालङ्कारे ज्ञेयः । रे आण्यमित्याकारलोपः 'प्राक्तनयुक्तितो ज्ञेयः ।
इति भाट्टदर्शनाभिप्रायेण मन्त्रस्य व्याख्या ॥ ७ ॥ श्री ॥ 'अथ के चित् परमेश्वरस्य प्रणिधानमाह:- Đ इत्यादि । इति प्राग्वत् । हे भूर्भुवः - हे सर्वव्यापिन् ! वेदेऽप्युक्तम्- 'पुरुष एवेदं यद्भूत'मित्यादि । वरेण्येति पूर्वानुनासिकरीत्या । " भर्गोदेव इति भर्गश्च उच १२ तेषामपि सन्ध्यादिश्रवणात् । तथा हि
Jain Education International
१. ०सा आदि० ने. । २. ०मत्रोकारशब्दपर्याये नैव नाऽप्यते ने. । ३. सर्वैरपि प्रवादिभिरविगा. ने. । ४. ०षणान्तरमाह ने. । ५. उश्च ब्रह्मा, उश्च शङ्करः, अश्च पुरुषोत्तमः सन्धिवशात् वम् - पुरुषत्रयम्, तेनाऽपि ध्येयमिति भावः । ने. । ६. वेति लक्षणात् ने । ७. ०पादयितुरिति यावत् । किं तत् व्याप्य० ने. । ८. प्राक्तनवाचोयुक्तेरेवावसेयः । तदयं समुदायार्थो - यस्म (स्मि )न् वेदे आदावस्खलितजगत्त्रयव्यापि देवत्रयेणाऽपि प्रणिधेयः यश्च उद्गीर्यते यश्च समस्तार्थप्रकाशने (नै) कभास्करस्तस्य वेदस्योपदेशमाश्रित्य कामसम्पत्करणे विद्वज्जनाः अभ्यर्चनीयेव आराधने आ( आ )स्माकीना बुद्धयः प्रवर्त्तन्ताम् । इति भ( भा ) ट्टदर्शने मन्त्रव्याख्या ॥ ७ ॥ ९. अथ सामान्येन सर्वप्रवादि संवादिश्व ( स्व ) स्वरूपस्य परमेश्वरस्य प्रणिधानमिदम्भूर्भुवः स्वस्तदित्यादि ने. । १०. एवेदमिति ने । ११. भर्गो भर्ग० ने. । १२. तेषामपि देव आराधनात्ववाच्यम्, तेषां सन्ध्या नास्ति तेषामपि सन्ध्यादिश्रवणात्, तथा ने. ।
-
For Private & Personal Use Only
www.jainelibrary.org