________________
अनुसंधान-१७. 185 यत्कालिदासः - क्रोधं प्रभो ! संहर संहरेति यावगिरः खे मरुतां चरन्ति ।
तावत् स वह्निर्भवनेत्रजन्म(न्मा) भस्मावशेष मदनं चकार ॥ १ ॥ तं ददात्याराधकेभ्य इति भर्गोदः' । तथा च शिवधर्मोत्तरसूत्रम्
पूजया विपुलं राज्य-मग्निकार्येण सम्पदः । तप: पापविशुद्धयर्थं ध्यानं ज्ञानं च मुक्तिदम् ॥ १ ॥
पुनः किम् ? धीमहि - धियः - पण्डिताः महः - पूजका यस्य स तथा । तत्र किं स्वच्छन्देनाऽस्मतयः प्रवर्तन्ताम् ? नेत्याह-प्रचोदयाचोदनं-चोदया-चोदना इत्यर्थः । ‘णि वेत्त्यासश्रन्थेति सूत्रेणारेऽनप्राप्तावपि 'शंसि प्रत्यया' दिति सूत्रेण बाहुलकादः णेर्लुक् प्रसङ्ग इति चेत् ? न । णि लुकोऽनित्यवात् । तथा च धातुपारायणं भीष्मादिभ्योऽनो(ना)पवादअप्रत्येयऽपि णिलुकि भीषा दिरूपसिद्ध्यै अद्विधानं णिलुकोऽनित्यत्वज्ञापनार्थम् । तेन सुप्रकम्पा इत्यादि सिद्धम् । चोदना च क्रियां प्रति प्रवर्तकं वाक्यं, यथा- 'अग्निहोत्रं जुहुयात् स्वर्ग कामः' । “यथाऽऽह हरिभद्रसूरिः षडदर्शनसमुच्चये
चोदनालक्षणो धर्मो चोदना तु क्रियां प्रति ।। प्रवर्तकं वचः प्राहुः स्वः कामोऽग्नि यथा यजेत् ॥ १ ॥
प्रकर्षेण चोदया-प्रचोदया'° । प्रचोदया च अस्मिन्नस्तीति 'अभ्रादिभ्य' इति गणस्याऽऽकृतिगणत्वात् अप्रत्यये प्रचोदयो-वेदः, तस्मात्-वेदोपदेशमाश्रित्येत्यर्थः । 'गम्ययपः कर्माधारे' इति पञ्चमी । किंभूताद्वेदात् ? सवितुर्वः। "कादम्बखण्डितदलानि व पङ्कजानि" इत्यादौ वस्य उपमानार्थे रूढत्वेन आदित्यादिव, समस्तार्थप्रकाशकत्वात् । तस्माद्वेदादस्मन्मतयोऽग्न्याराधनादौ प्रवर्त्य(तीन्ताम् । १. भर्गोदः तस्मिन् । अग्नितर्पिणां शास्त्रे सम्पत्संप्राप्ताभिधानात् सम्पदां च कामहेतुत्वात् । तथा च० ने. । २. ०मतयः पावकतर्पणादौ ने. । ३. वेणाऽप्राप्ता० ता.। ४. भीषादीनां सिधानं णिलुको० ने । ५. सिद्धमिति ने. । ६.वचनं ने । ७. ०काम इति ने. । ८. व्याचकार षड्दर्शनसमुच्चयकारः ने. । ९. इति ने. । १०. ०दयाऽस्मिन्नस्तीति। 'अभ्रादिभ्य' इति बहुवचनस्याऽऽकृतिगणज्ञापनार्थत्वात् अप्रत्यये चोदयो वेदः ने.। ११. वशब्दस्य कादम्बखण्डितदलानि च व) पङ्कजानी 'त्यादिः उपमानार्थस्यत्वा( र्थत्वा )दादित्यादिव समस्तार्थप्रकाशकतया भास्करतुल्यादित्यर्थः । ने. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org