________________
अनुसंधान-१७. 184
'इत्यत्र बहु बहु वक्तव्यं तत्तु ग्रन्थगौरवभयानोच्यते, गमनिकामात्रफलत्वादिस्य ।
हि - स्फुटम् । हे यो ! - पदैकदेशे पदसमुदायोपचारात् हे योगिन् ! । 'बुद्धे तु. भगवान् योगी'ति शेषवचनात् योगी-बुद्धस्तस्याऽऽमन्त्रणम् ।
नोऽस्माकं धियो - बुद्धीरभिप्रेततत्त्वज्ञानं प्रति चोदय व्यापारय । अत्अतति सातत्येन गच्छति । 'गत्यर्था ज्ञानार्था' इति वचनात्, अतति-गच्छतीति अत्-सर्वज्ञः ।
इति बौद्धाभिप्रायेण ५ मन्त्रस्य व्याख्या ॥ ६ ॥ ६अथ जैमिनीयाः पुनः सर्वज्ञ देवत्वेन न प्रतिपन्नाः', नित्येभ्यो वेदवाक्येभ्य एव तेषां तत्त्वनिश्चयः, साक्षादतीन्द्रियार्थदर्शिन स्तन्मते ऽभावात् । यदुक्तम्
अतीन्द्रियाणामर्थानां साक्षात् दृ(द्र)ष्टा न विद्यते ।। "नित्येभ्यो वेदवाक्येभ्यो यथार्थत्वविनिश्चयः ॥ १ ॥
अतस्ते वेदवाक्यप्रामाण्यादेव वैश्वानरं गुरुतयार प्रपन्नाः तत्स्तुतिं वेदगर्भामित्थं कुर्वन्ति । तत्राऽस्याः पदविभागः क्रियते - भूर्भुवः स्वस्तत् सवितुर्वरे आण्यं भर्गो देवस्य धीमहि धियोऽयो नः प्रचोदयार्थः( त्)१३ इति ।
धियो-बुद्धयो नो-ऽस्माकं, भवन्तिति वाक्य शेषः । किंभूता:१४ ? अयः - अयन्ति गच्छन्तीति अयः - गामिन्यः । क्व५? रे - अग्नौ, तदाराधनादाविति ग्राह्यम् । तदाराधनादावस्मान् प्रवर्तयेत्यर्थः । १६किंभूते रे? भर्गोदे- अवतीति ऊ-र्दाहकः । अवते र्धातुपाठे दाहार्थतया पाठात् । भर्ग-ईश्वरः ऊ-दोहको यस्य स भर्गो-कामः । १इत्याद्य० ता. । २.०त्वात् प्रयासस्य ने। ३.०त्यभिधानचिन्तामणिशेष० ने.। ४.०ति इति अत् । गत्यर्थानां सर्वज्ञानार्थत्वात् सर्वज्ञ इत्यर्थय ने.। ५.मन्त्रव्याने। ६. जैम० ने। ७.देवतात्वेन ने.। ८.०न्नाः किन्तु ने। ९.०दर्शिनः कस्याचिदपि ने। १०.वचनेन हि नित्येन, यः पश्यति स पश्यति ने। ११.०तया पर्युपासते । इति तत्प्राणिधानार्थं वेदस्तुतिगर्भमिदं पठन्ति-भूर्भुवः स्वरित्यादि । तत्र सुखावबोधाय पदविभागः ०ने। १२.धियः नः प्रचो-ने.। १३.०यात् । अधुनाऽक्षरार्थः कथा थ्य ते ने। १४.किंभूता भवन्तु ? ने। १५.क्व? इत्याह रे-ऽग्नौ । अग्निशब्देनाऽत्र तदाराधनादि ग्राह्यम् । आन (?)शाऽग्न्याराधनादावस्मन्मतयः प्रवर्तनशीला भवन्त्वित्ययमर्थः सम्पन्न: ने. । १६.कि विशिष्टे रे ? भर्गोदे-ऽवन्तीम( त्यु)-हकः । अवते: श्रीसिद्धहेमधातुपाठे दहनार्थतया पठितत्वात् ने। १७. यस्य या )ऽसौ ने. ।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org