SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१७• 183 इति वैष्णवाभिप्रायेण 'मन्त्रस्य व्याख्या ॥ ५ ॥ यदि वा सौगताः स्वं देवं बुद्धभट्टारकं प्रणिददाना एवमाहुः३-इति प्राग्वत् । हे भुराधार ! भुवो भव्यलोकस्य स्वः - परलोकम्, तनोति "प्रज्ञापयतीति यावत् स्वस्तत् । आत्म नास्तित्वे परलोकाभ्युपगमात् । आत्मा(त्म)नास्तित्वं च - ‘पञ्चेमानि भिक्षवः ! संज्ञामात्रं प्रतिज्ञामात्रं संवृत्तिमात्रं व्यवहारमात्रम् । कतमानि पञ्च ? अतीताद्धा-अनागताद्धा-प्रतिसङ्ख्यानिरोधः आकाशं-पुद्गलं' इति बुद्धोक्तिप्रामाण्यात् । अत्र पुद्गल इत्यात्मा । सवितुः-रवेवरेण्यः -प्रधानः, रविबुद्धत्वात् सप्तमस्य बुद्धस्य शाक्यसिंहाभिधानस्य । भर्गोदेवस्येति बिभर्तीति भर् पोषक: । कस्येत्याह-गोदेवस्य । गोभिर्भूतार्थगर्भाभिर्वाग्भिर्दीव्यति स्तौतीति गोदेवस्तस्य । यदि नामासंवेदयताऽपि डिम्भेन भगवते बौ(बु)द्धाय कल्पितः पांशुमुष्टी राज्यं फलति तदा किं नामाऽऽश्चर्य भावस्तुतिपराणां मनीषितसिद्धिविधाने ?। तथा हे धीम ! । धियं-ज्ञानमेव मिमीते-शब्दयति प्रापयतीति धौमः । बहिरर्धाकार(रा)णा मविद्यादर्शितत्वादविद्या(द्य)मानत्वेन ज्ञानाद्वैतस्य तन्मते प्रामाण्यात् । 'उक्तं च तैः - ग्राह्यग्राहकनिर्मुक्तं विज्ञानं परमार्थसत् । नाऽन्योऽनुभावो बुद्ध्याऽस्ति तस्या नाऽनुभवो परः ॥ १ ॥ ग्राह्यग्राहकवैधुर्यात् स्वय सैव प्रकाशते ।। बाह्यो न विद्यते ह्यर्थो यथा बालैर्विकल्प्यते ॥ २ ॥ वासना"लुठितं चित्त-मर्था भासं(से) प्रवर्तते । - १. मन्त्रव्याख्या ने. । २. सौगताः स्वं ने. । ३. ०माह:- भूर्भुवःस्वरित्यादि ने. । ४. विस्तारयति प्रज्ञा. ने. । ५. आत्मा नास्तित्वे ता. ६. ०भ्युपगमात् । आत्मा नास्ति पुनर्भा(भ)वोऽस्तीत्यादि धाना (?) एवमावचनात् ने. । ७. प्रयति ने. । ८. राणां अविद्यादर्शितत्वादवस्तुत्वेन ज्ञानाद्वैतस्य तन्मते प्रमाणत्वात् ने. । ९. उक्तं च मुनीन्द्रपादोपजीविभिः ने.। १०. प्रकाश्यते ने. । ११.०लुंठितं ता. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520517
Book TitleAnusandhan 2000 00 SrNo 17
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages274
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy