SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१७० 182 यो न' इत्यन्तरकारप्रश्लेषात् ह अविष्णो ! । न इति योजितमेव । प्रचोदयादित्यादि प्रकृष्टश्चोदः शृङ्गारभाव सूचनम्, यस्यां सा प्रचोदा चासौ या च लक्ष्मीश्च प्रचोदया, तां "अतति-गच्छति-सातत्येन सेवते इति यावत्, स प्रचोदयात् । तस्य सम्बोधनं हे प्रचोदयात् । यद्वा पूर्वं न इति योज्यते । सामर्थ्यादेव-अस्माकमिति प्रतीतेः । ततश्च आनः प्रचोद इति ज्ञेयम् । हे अनः प्रचोद, ५ अनः शकटं प्रचोदयति प्रेरयतीत्यनः प्रचोदस्तद मन्त्रणम् । शेषवहि (शैशवे हि) विष्णुना चरणेन शकटं पर्यस्तमिति श्रुतिः । ततः 'समानानां तेन दीर्घः' इति सन्धौ आनः प्रचोद इति ज्ञेयम् । ___ ननु 'यो' पदात्परे 'आनःप्रचोद 'पदे-यवानःप्रचोद इति भाव्यम् । कथमत्र योनःप्रचोद इति ? नैवम् । कातन्त्रे १ 'एदोत्परः पदान्ते लोपमकार' इति सूत्रे एदोभ्यामिति सिद्धं यत्परग्रहणं तदिष्टार्थम् । तेन क्वचिदाकारोऽपि लोप मापद्यते । ततोऽत्राऽऽकारलोपात् सिद्धं योनःप्रचोदेति । न चैवंविधा प्रयोगा नोपलभ्यन्ते इति वाच्यम् । 'बन्धुप्रियां बन्धुजनो जुहावे'त्यादि महाकविप्रयोगदर्शनात् । ___ अथवा स्वस्तदिति विशेषणमाह, प्रचोदेति पुनः क्रियापदम्, अन इति कर्मपदम्, अन्तरात्मसारथिना प्रवर्तनीयत्वादन इवाऽनः शरीरं तत् प्रचोद 'चुदण् सञ्चोदने' तस्माश्चरादेणिचोऽनित्यत्वात्तदभावे हौ रूपम् । सञ्चोदनं च नोदनमिति धातुपारायणकृता तथैव व्याख्यानात् । ततश्च प्रचोद-प्रकर्षण नुद स्फोटय । नह्यमुं दग्धकाय"मुत्सृज्य क्वचिदपि परमसुखलाभः । उक्तं है . वेदेषु - 'अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशतः न ह वै [स]शरीरस्य प्रियाप्रिययोरपहतिरस्ती'ति ।। १. इति यो न इत्यन्तरा० ने. । २. दिति ने. । ३. स्तवनम् ने. । ४. अतति सातत्येन गच्छति प्रचोदयात्, तस्याऽऽमन्त्रणं हे प्रचोदयात् ! ने. । ५. अनतु ने. । ६. ०नाराय चरणेन ने. । ७. श्रुतेः ने. । ८. समानानामिति ता. । ९. इति सन्धौ न प्रचोद इति भवति ने. । १०. भवितव्यम् ने. । ११. कातन्त्रेण ता. । १२. ०मापतते ने. । १३. न चैवं प्रकाराः ने. । १४. तुष्टने तस्य चुरादिर्णिचो अनि० ने. । १५. ०कायं कलिगतसृज्य ने. । १६. क्वचिदिति ता. । १७. वेदे ने. । १८. न हि वै ता. । - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520517
Book TitleAnusandhan 2000 00 SrNo 17
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages274
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy