Book Title: Antya Karm Dipak
Author(s): Nityanandparvati
Publisher: Chaukhamba Sanskruti Pustakalaya

View full book text
Previous | Next

Page 22
________________ अन्त्यकर्मदीपके ( मूल्यदानं चिकीर्षुः तन्मूल्यं पुरतो निधाय ) पूर्ववत् भूमिदानं करिष्ये तदङ्गत्वेन भूमिपूजनं ब्राह्मणपूजनं च करिष्ये इति प्रतिज्ञाय भूम्यै नमः इति गन्धाक्षतादिभिः भूमि सं० ब्राह्मणं च पूर्ववत् लम्पूज्य हस्ते जलादिकमादाय अद्येह मम ( पित्रादेः) सकलपापक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं दानखण्डोक्तफलाबाप्तये च इमां भूमिममुकपरिमाणां विष्णुदैवताम् (मूल्यदानपक्षे अमुकद्रव्यममुकदैवतम् ) अमुकगोत्राय ब्राह्मणाय० सर्वभूताश्रया भूमिवराहेण समुद्धृता । अनन्तसस्यफलदा ह्यतः शान्ति प्रयच्छ मे ।। यथा भूमिप्रदानस्य कलां नाहन्ति षोडशीम् । दानान्यन्यानि मे शान्तिभूमिदानाद्भवत्विह ॥ इति पठन द० मूल्यदानपक्षे-यतो भूमिप्रदानस्य कलां नार्हन्ति पोडशीम् । दानान्यन्यानि मे शान्तिर्भूयाद् भूमूल्यदानतः ॥ इयि पठन् दद्यात् । ब्राह्मणः स्वस्तीति वदेत् । कृततद्भूमिदानप्रतिष्ठासिद्धयर्थमिदं द्रव्यममुकदैवतममुकगोत्राय० । अथ तिलदानम् । : ......... द्रोणद्वयमितान् (एकादशपलाधिक २५ सेटकमितान), द्रोणपरिमितान् ( पलाधिकपादोनत्रयोदशसेटकमितान् ), यथाशक्ति वा तिलान् तन्मूल्यं या पुरतः संस्थाप्य पूर्ववत् प्रतिज्ञासङ्कल्पं कृत्वा गन्धादिभिः तिलेभ्यो नम: विष्णोदेहसमुद्भूताः कुशा: कृष्णतिलास्तथा । धर्मस्य रक्षणायालमेतत्प्राहुर्दिवौकसः । माषचतुष्टयं सुवर्णम् ! (पञ्चरतिको माषः) .. हिर-यप्रमाणमेकस्तोलकः । तावत्येव दक्षिणा। आज्यप्रमाणं तु उत्तमपक्षे षष्टि ६० पलानि, मध्यमपक्षे चत्वारिंशत् ४०, अधम-' पक्ष द्वादश १२ । दक्षिणा सुवर्णमाषाश्चत्वारः। लवणं च आज्यतुल्यम् । गुडो द्विगुण आज्यात् । दक्षिणा आज्यवदेव। .. धान्यं पञ्चद्रोणमितम् । दक्षिणा यथाशक्ति। रजतं निष्कप्रमाणम् । निष्कमानं तु "निष्कं सुवर्णाश्चत्वारः" इति परिभाषितम् । कर्षचतुष्टयमितं रमतमित्यर्थः ।

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169